________________
एकोनविंशं मृगापुत्रीयमध्ययनम्
५६९ व्याख्या हुताशने ज्वलति सति क्व ? इत्याह-चितासु परमाधार्मिकनिर्मितासु महिष इव दग्धो भस्मसात् कृतः, 'पक्को' भटित्रीकृतः, 'पावितो' त्ति पापमस्यास्तीति पापिकः ॥५७॥
बला संडासतंडेहिं लोहतंडेहिं पक्खिहिं ।
विलुत्तो विलवंतो हं ढंकगिद्धेहिंऽणंतसो ॥५८॥ व्याख्या-बलात् हठात् सन्दंशाः प्रतीतास्तदाकृतीनि तुण्डानि मुखानि येषां ते तथा तैर्लोहवन्निष्ठुरतया तुण्डानि येषां ते तैः पक्षिभिर्डङ्कगृद्धैरिति योग: । विलपन् विलुप्तो विविधं छिन्नः । एते च वैक्रिया एव तत्र तिरश्चामभावात् ॥५८॥ तस्य चैवं कदीमानस्य तृषोत्पत्तौ का वार्तेत्याह
तण्हाकिलंतो धावंतो पत्तो वेतरणिं नइं ।
जलं पाहिति चिंतंतो खुरधाराहि विवाईओ ॥५९॥ व्याख्या-तृष्णया क्लान्तो ग्लानिं गतो धावन प्राप्तो वैतरणी नदी जलं पास्यामीति चिन्तयन् क्षुरधाराभिरिव क्षुरधाराभिः 'जलोमिभिरिति शेषः' विपादित इत्यर्थः ॥५९॥
उण्हाभितत्तो संपत्तो असिपत्तं महावणं ।
असिपत्तेहिं पडतेहिं छिन्नपुव्वो अणंतसो ॥६०॥ व्याख्या-उष्णेन वज्रवालुकादिसम्बन्धितापेनाऽभितप्तः सम्प्राप्तोऽसयः खड्गास्तद्वद् भेदकतया पत्राणि यस्मिंस्तदऽसिपत्रं महावनं तत्र तादृशैरसिपत्रैः पतद्भिश्छिन्नपूर्वोऽनन्तशः ॥६०॥
मुग्गरेहिं मुसंढीहिं सूलेहिं मुसलेहि य ।।
गयासं भग्गगत्तेहिं पत्तं दुक्ख अणंतसो ॥६१॥ ___ व्याख्या-मुद्गरादिभिरायुधविशेषैः । गता नष्टा आशा रक्षाविषया यत्र तद् गताशं यथा स्यादेवं 'भग्गगत्तेहिं' ति भग्नगात्रेण मया प्राप्तं दुःखमनन्तश इति ॥६१॥
खुरेहिं तिक्खधाराहिं छुरियाहिं कप्पणीहि य ।।
कप्पिओ फालियो छिन्नो उक्त्तो य अणेगसो ॥६२॥ व्याख्या-क्षुरादिभिः कल्पितो वस्त्रवत् पाटित ऊर्ध्वं द्विधाकृतः, छिन्नस्तिर्यक् खण्डितः, उत्कृत्तस्त्वग्व्यपनयनेन ॥६२।।
_Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org