________________
५६८
उत्तरज्झयणाणि-२ व्याख्या-अतितीक्ष्णकण्टकाकीर्णे तुङ्गे शाल्मलीपादपे पाशबढेन मया क्षपितं निजीणं 'पापमिति गम्यते' 'कड्ढोकड्डाहि' ति इतस्ततः कर्षणाऽपकर्षणैः परमाधार्मिककृतैर्दुष्करमिति दुःसहम् ॥५२॥
महाजंतेसु उच्छू वा आरसंतो सुभेरवं ।
पीलिओ मि सकम्मेहिं पावकम्मो अणंतसो ॥५३॥ व्याख्या-महायन्त्रेषु 'उच्छू व' त्ति 'वा इवार्थे' इक्षुरिवारसन्नाऽक्रन्दन् सुभैरवं भयानकं पीलितोऽस्मि स्वकर्मभिहिंसादिरूपैः पापाकर्माहमऽनन्तशः ॥५३॥
कूवंतो कोलसुणएहिं सामेहिं सबलेहि य ।
पाडिओ फालिओ छिन्नो विप्फुरंतो अणेगसो ॥५४॥ व्याख्या-कूजनातुरशब्दं कुर्वन् 'कोलसुणएहिं' ति सूकरश्वरूपधारिभिः श्यामैः शबलैः परमाधार्मिकैः पातितो भुवि, पाटितो जीर्णवस्त्रवत् छिन्नो वृक्षवदुभयदंष्ट्राभिर्विस्फुरन् इतस्ततश्चलन्नऽनेकशः ॥५४॥
असीहिं अयसिवण्णाहिं भल्लीहिं पट्टिसेहि य ।
छिन्नो भिन्नो विभिन्नो य ओइन्नो पावकम्मुणा ॥५५॥ व्याख्या-असिभिर्खड्गैरऽतसीपुष्पवर्णभल्लीभिः पट्टिशैश्च प्रहरणविशेषैश्छिन्नो द्विधाकृत ऊर्ध्वं, भिन्नस्तिर्यक्, विभिन्नः श्लक्ष्णखण्डीकृतोऽवतीर्णो 'नरके इति गम्यते' पापकर्मणा हेतुभूतेन ॥५५॥
अवसो लोहरहे जुत्तो जलंते समिलाजुए ।
चोइओ तोत्तजुत्तेहिं रोज्झो वा जह पाडिओ ॥५६॥ व्याख्या-अवशः परवशो लोहरथे लोहमयशकटे 'जुत्तो' त्ति युजेरन्तर्भूतेनार्थत्वाद् योजितः परमाधार्मिकैवलति दीप्यमाने, कदाचिद् दाहभीत्या ततो नश्येदऽपीत्याऽह-समिलोपलक्षितं युगं यस्मिन् स तथा तस्मिन् 'चोइओ' त्ति नोदितः प्रेरितस्तोत्रयोक्त्रैः प्राजनकबन्धनविशेषैः 'मर्माहननादिनेति गम्यम्' । 'वाशब्दः समुच्चये, यथेत्यौपम्ये' ततो 'रोज्झः' पशुविशेष इव पातितो वा 'लकुटादिपिट्टनेनेति गम्यते' ॥५६॥
हुयासणे जलंतंमि चियासु महिसो विव । दड्डो पक्को अवसो पावकम्मेहिं पाविओ ॥५७॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org