SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ ५६७ एकोनविंशं मृगापुत्रीयमध्ययनम् जहा इहं अगणी उण्हो इत्तोऽणंतगुणो तहिं । नरएसु वेयणा उण्हा अस्साया वेइया मए ॥४७॥ व्याख्या-यथेह मनुष्यलोकेऽग्निरुष्णोऽनुभूयते । अत इत्यऽनुभूयमानादऽनन्तगुणः । 'तर्हि' ति तेषु येष्वहमुत्पन्न इति भावः । तत्र च बादराग्नेरभावात् पृथ्व्या एव तादृशः स्पर्श इति गम्यम् । अतश्चोष्णानुभवात्मकत्वेनासातादुःखरूपात्रत्याग्नेरनन्तगुणा नरकेषूष्णा वेदना वेदिता मयेति ॥४७॥ जहा इमं इहं सीयं इत्तोऽणंतगुणं तहिं । नरएसु वेयणा सीया अस्साया वेइया मए ॥४८॥ व्याख्या-यथैतदिह शीतं माघादौ शेषं प्राग्वत् ॥४८॥ कंदंतो कंदुकुंभीसु उड्डपाओ अहोसिरो । हुयासणे जलंतंमि पक्कपुव्वो अणंतसो ॥४९॥ व्याख्या-क्रन्दन् कन्दकुम्भीषु पाकभाजनविशेषरूपासु लोहमयीपूर्ध्वपादोऽध:शिरा देवमायाकृते हुताशनेऽग्नौ ज्वलत्यनन्तशोऽहं पक्कपूर्वः ॥४९॥ महादवग्गिसंकासे मरुम्मि वइरवालुए । कलंब-वालुयाए य दडपुव्वो अणंतसो ॥५०॥ व्याख्या-यद्यपीहत्याग्नेरऽनन्तगुण एव तत्रोष्णः पृथिव्यनुभावस्तथापीहान्यस्याभावान्महादवाग्निसङ्काशे इत्युक्तम् । मराविति 'तात्स्थ्यात् तद्व्यपदेशसम्भवात्' मरुवालुकासदृशे । तथा वज्रवत् कर्कशा वालुका यत्र नरकप्रदेशे तस्मिन् । तथा कदम्बवालुका नदीपुलिनवालुका तदुपमाने एवंविधे महादवाग्न्यादिसदृशे प्रदेशेऽनन्तशोऽहं दग्धपूर्वः ॥५०॥ रसंतो कंदुकुंभीसु उठें बद्धो अबंधवो । करवत्तकरकयाईहिं छिन्नपुव्वो अणंतसो ॥५१॥ व्याख्या-पूर्वं कन्दुकुम्भीषु पूर्वोक्तासु रसन्-आरटन् । तत ऊर्ध्वमुपरि वृक्षशाखादौ बद्धो माऽयमितोऽनङ्क्षीदिति अबान्धवोऽशरणोऽहं करपत्र-क्रकचादिभिरनन्तशः छिन्नपूर्वः ॥५१॥ अइतिक्खकंटकाइन्ने तुंगे सिंबलिपायवे । खवियं पासबद्धणं कड्डोकड्डाहिं दुक्करं ॥५२॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002566
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy