________________
५६६
उत्तरज्झयणाणि-२ व्याख्या-यथा भुजाभ्यां बाहुभ्यां तरीतुं रत्नाकरः समुद्रो दुष्करस्तथानुपशान्तेनोत्कटकषायेण दमसागर इति पूर्वं सर्वगुणोदधेईस्तरत्वमुक्तमिह तूपशमसागरस्येति न पौनरुक्त्यम् ॥४२॥
भुंज माणुस्सए भोए पंचलक्खणए तुमं ।
भुत्तभोगी तओ जाया ! पच्छा धम्मं चरिस्ससि ॥४३॥ व्याख्या-यतश्चैवं तारुण्ये दुष्करा प्रव्रज्यातो भुक्ष्व मानुष्यकान् भोगान् पञ्चलक्षणकान् शब्दादिपञ्चस्वरूपान् । ततो भोगभुक्तेरनन्तरं हे जात ! पुत्र ! पश्चादिति वार्धके धर्मं चारित्रं 'चरिस्ससि' त्ति चरेः इति ॥४३॥ अत्रेत्थं मात--पितृवचनमाकर्ण्य यथा मृगापुत्र उक्तवांस्तथाऽऽह
सो बिंतम्मा-पियरो एवमेयं जहा फुडं ।
इह लोए निप्पिवासस्स नत्थि किंचि वि दुक्करं ॥४४॥ व्याख्या-स मृगापुत्रः “बिति' त्ति वचनव्यत्ययाद् बूतेऽम्बापितरौ एवमिति यथोक्तं भवद्भ्यां तथैतत् प्रव्रज्यादुष्करत्वम् । यथा स्फुटमवितथं तथापीह लोके निष्पिपासस्य निःस्पृहस्य नास्ति किञ्चिद् दुष्करमिति दुरनुष्ठेयं व्रतादि, भोगादिसस्पृहतायामेवास्य दुष्करत्वादिति भावः ॥४४॥ निःस्पृहताहेतुमाह
सारीर-माणसा चेव वेयणाओ अणंतसो ।
मए सोढाओ भीमाओ असई दुक्ख-भयाणि य ॥४५॥ व्याख्या-शारीरा मानस्यश्च वेदना अनन्तशो मया सोढा भीमा रौद्राः । असकृन् निरन्तरं दुःखोत्पादकानि भयानि राजविड्वरादीनि दुःख-भयानि 'सोढानीति योज्यम्' ॥४५॥
तथा
जरा-मरणकंतारे चाउते भयागरे ।
मए सोढाणि भीमाणि जम्माणि मरणाणि य ॥४६॥ व्याख्या-जरा-मरणाभ्यामतिगहनतया कान्तारमिव जरा-मरणकान्तारं तस्मिंश्चत्वारो देवादिभवा अन्ता अवयवा यस्याऽसौ चतुरन्तः संस्तारस्तस्मिन् भयाकरे भयानके तत्र मया सोढानि भीमानि नानादुःखजनकत्वेन रौद्राणि जन्मानि मरणानि च ॥४६।।
_Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org