________________
५६५
एकोनविंशं मृगापुत्रीयमध्ययनम्
वालुयाकवले चेव निरस्साए उ संजमे ।
असिधारागमणं चेव दुक्करं चरिउं तवो ॥३७॥ व्याख्या-वालुकाकवल इव निरास्वादः संयमो विषयगृद्धानां वैरस्यहेतुत्वात् । असिधारागमनमिव तपोऽपि चरितुं दुष्करम् ॥३७॥
अहीवेगंतदिट्ठीए चरित्ते पुत्त ! दुच्चरे ।
जवा लोहमया चेव चावेयव्वा सुदुक्करं ॥३८॥ व्याख्या-अहिरिवैकान्ता चाऽसौ दृष्टिश्चैकान्तदृष्टिस्तयाऽनन्याक्षिप्तयाऽहिपक्षे दृशाऽन्यत्र तु बुद्ध्योपलक्षितमेकान्तदृष्टिकं चारित्रं पुत्र ! दुश्चरं विषयेभ्यो मनसो दुर्निवारत्वादिति भावः । एवकारस्योपमार्थत्वात् । यवा लोहमया इव चर्वयितव्याः लोहमययवचर्वणवत् सुदुष्करं चारित्रमिति ॥३८॥
जहा अग्गिसिहा दित्ता पाउं होइ सुदुक्करं ।
तह दुक्करं करेउं जे तारुण्णे समणत्तणं ॥३९॥ व्याख्या-यथाग्निशिखाग्निज्वाला दीप्तात्युज्ज्वला पातुं भवति सुदुष्करं 'नृभिरिति गम्यम्' । 'सर्वधात्वर्थत्वात् करोतेः सुदुःशका आर्षत्वादनुस्वारो लिङ्गव्यत्ययश्च' । तथा तारुण्ये श्रामण्यं कर्तुं दुष्करमिति ॥३९॥
जहा दुक्खं भरेउं जे होइ वायस्स कोत्थलो ।
तहा दुक्खं करेउं जे कीवेणं समणत्तणं ॥४०॥ व्याख्या-यथा दुःखं भर्तुं 'जे पादपूरणे' भवति 'वायस्स' त्ति विभक्तिव्यत्ययाद् वातेन 'कोत्थलो' वस्त्र-कम्बलादिमयः, चर्ममयो हि सुखेन भ्रियते इति । तथा क्लीबेन कातरेण पुरुषेण श्रामण्यं कर्तुं दुष्करमिति ॥४०॥
जहा तुलाए तोलेउं दुक्करं मंदरो गिरि ।
तहा निहुयं निस्संकं दुक्करं समणत्तणं ॥४१॥ व्याख्या-यथा 'मन्दरो' मेरुगिरिस्तुलया तोलयितुं दुष्करः । तथा निभृतं निश्चलं निःशवं शङ्कादिदोषरहितं दुष्करं श्रमणत्वमिति ॥४१॥
जहा भुयाहि तरिउं दुक्करं रयणागरो । तहा अणुवसंतेणं दुक्करं दमसायरो ॥४२॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org