________________
५६४
उत्तरज्झयणाणि-२ कावोया जा इमा वित्ती केसलोओ य दारुणो ।
दुक्खं बंभव्वयं घोरं धारेउं अहमप्पणो ॥३३॥ . व्याख्या-कापोताः पक्षिविशेषास्तेषामियं कापोती येयं वृत्तिनिर्वहणोपायः । ते हि नित्यं शङ्किताः कण-कीटादिग्रहणे प्रवर्तन्ते, एवं भिक्षुरप्येषणादोषशक्येव भिक्षादौ प्रवर्तते । केशलोचश्च दारुणः 'उपलक्षणं चैतत् समस्तोत्तरगुणानाम्' । अथ च ब्रह्मव्रतं घोरं रौद्रं धारयितुं पालयितुममहात्मना दुःखमिति दुष्करमेव । पुनर्ब्रह्मव्रतस्य दुष्करत्वाभिधानमतिदुर्धरत्वख्यापनार्थम् ।।३३।। उपसंहारमाह
सुहोईओ तुमं पुत्ता ! सुकुमालो य सुमज्जिओ ।
न हु सी पभू तुमं पुत्ता ! सामण्णमणुपालिउं ॥३४॥ व्याख्या-सुखस्योचितो योग्यः सुखोचितस्त्वं पुत्र ! सुकुमारोऽकठिनदेहः 'सुमज्जिओ'त्ति सुमज्जितः सुष्ठस्नापितः 'सर्वनेपथ्योपलक्षणमिदम्' । 'न हु सि' त्ति नैवाऽसि भवसि प्रभुः समर्थस्त्वं पुत्र ! श्रामण्यं प्रागुक्तगुणरूपं अनुपालयितुमिति ॥३४॥ एतदेव समर्थयति
जावज्जीवमविस्सामो गुणाणं तु महब्भरो ।
गरुओ लोहभारु व्व जो पुत्ता ! होइ दुव्वहो ॥३५॥ व्याख्या-यावज्जीवमविश्रामो यत्रोद्धृते न विश्रम्यते । गुणानां यतिसम्बन्धिनां तु पुनर्महाभरो महासमूहो गुरुको लोहभार इव यः पुत्र ! भवति दुर्वहः ‘स सोढव्य इति शेषः' ॥३५॥
आगासे गंगसोउ व्व पडिसोउ व्व दुत्तरो ।
बाहाहिं सागरो चेव तरियव्वो गुणोदही ॥३६॥ व्याख्या-आकाशे गङ्गास्रोतोवत् 'दुस्तर इति योज्यते' लोकरूढ्या चैतदुक्तम् । तथा प्रतिस्त्रोतोवद् यथा प्रतीपजलप्रवाहो दुस्तरो दुःखेन तीर्यते इति । तथा बाहुभ्यां सागरवद् दुस्तरो यः स तरितव्यः परपारगमनायावगाहयितव्यः । कोऽसौ ? गुणा ज्ञानादयस्ते उदधिरिव गुणोदधिः स दुस्तर: काय-वाग्-मनोनियन्त्रणेनैव तदुत्तरणात्, तस्य च दुष्करत्वात् ॥३६॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org