________________
५६३
एकोनविंशं मृगापुत्रीयमध्ययनम्
विरई अबंभचेरस्स काम-भोगरसन्नुणा ।
उग्गं महव्वयं बंभं धारेयव्वं सुदुक्करं ॥२८॥ व्याख्या-विरतिनिवृत्तिरब्रह्मचर्यस्य। काम-भोगाश्च रसाश्च काम-भोग-रसा-स्तज्ज्ञेन । तदज्ञस्य हि तदनवगमात् तद्विषयाभिलाष एव न भवेत् । तथा च सुकरत्वमपि स्यादित्याशयेनैतद्विशेषणम् । ततश्च उग्रं महाव्रतं ब्रह्मचर्यरूपं धारयितव्यं सुदुष्करमिति ॥२८॥ तथा
धण-धन्न-पेसवग्गेसु परिग्गहविवज्जणं ।
सव्वारंभपरिच्चाओ निम्ममत्तं सुदुक्करं ॥२९॥ व्याख्या-धन-धान्य-प्रेष्यवर्गेषु परिग्रहः सत्सु स्वीकारस्तद्विवर्जनम् । सर्वे ये आरम्भा द्रव्योत्पादनव्यापारास्तत्परित्यागः । 'चस्य गम्यत्वाद्' निर्ममत्वं च सर्वत्र ममेति बुद्धिपरिहार इत्येतदपि दुष्करम् ॥२९।।।
चउव्विहे वि आहारे राईभोयणवज्जणं ।
सन्निहीसंचओ चेव वज्जेयव्वो सुदुक्करं ॥३०॥ व्याख्या-चतुर्विधस्याप्याहारे रात्रिभोजनवर्जनम् । सन्निधिघृतादेरुचितकालातिक्रमेण स्थापनं स चासौ सञ्चयश्च सन्निधिसञ्चयश्चैव वर्जयितव्य एतत् सुदुष्करमिति
॥३०॥
एतेन रात्रिभोजनषष्ठ–पञ्चमहाव्रतदुष्करतोक्ता, अथ परीषहादिदुष्करतामाह
छुहा तण्हा य सीउण्हं दंस-मसगवेयणा । अक्कोसा दुक्खसिज्जा य तणफासा जल्लमेव य ॥३१॥ ताडणा तज्जणा चेव वह-बंध-परीसहा ।
दुक्खं भिक्खायरिया जायणा य अलाभ य ॥३२॥ अनयोर्व्याख्या-क्षुधा, तृषा, शीतोष्णे, दंश-मशकयोर्वेदना तद्भक्षणोत्था दुःखानुभवरूपा पीडा, आक्रोशा अधिक्षेपवचनानि, दुःखशय्या विषमोन्नतत्वादिना दुःखहेतुर्वसतिः, तृणानां स्पर्शस्तृणस्पर्शः, जल्लो देहमलः एव निश्चयेन, चः पूरणे' ताडना करादिभिराहननम्, तर्जना अङ्गलिभ्रमण-भ्रूविक्षेपादिरूपा, वधः शूल-लकुटादिप्रहारः, बन्धो मयूरादिबन्धनम्, भिक्षाचर्या भिक्षाटनं, याचा प्रार्थना, अलाभश्च । एते परीषहाः 'चशब्दोऽत्रानुक्तशेषपरीषहसङ्ग्रहार्थः' । दुःखशब्दश्चेह क्षुद्दःखमित्यादि प्रत्येकं योज्यः ॥३१-३२॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org