SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ उत्तरज्झयणाणि - २ व्याख्या - एवं लोके प्रदीप्ते व्याकुलीकृते जरया मरणेन च । आत्मानं सारभाण्डतुल्यं तारयिष्यामि प्रदीप्तलोकपारं नेष्यामि 'धर्मकरणेनेति प्रक्रमः' । असारं कामभोगादि त्यक्ष्यामीति भावः । युष्माभिरनुमतोऽभ्यनुज्ञातः ॥२३॥ ५६२ एवं च तेनोक्ते माता- पितरौ यथाऽऽहतुस्तथाऽऽह— तं बिंति अम्मा- पियरो सामन्नं पुत्त ! दुच्चरं । गुणाणं तु सहस्सा धारेयव्वाइं भिक्खुणो ॥ २४ ॥ व्याख्या–तं बलश्रियं मृगापुत्रापरनामकं युवराजं 'बिति' त्ति ब्रूतोऽभिधत्तोऽम्बा - पितरौ श्रामण्यं चारित्रं हे पुत्र ! दुश्चरम् । यतस्तत्र गुणानां श्रामण्योपकारकशीलाङ्गरूपाणां सहस्राणि 'तुरेवार्थे' धारयतिव्यान्येवात्मनि स्थाप्यानि भिक्षोरिति सुब्व्यत्ययाद् भिक्षुणा सता ॥ २४ ॥ तथा समया सव्वभूएसु सत्तु - मित्तेसु वा जगे । पाणाइवायविरई जावज्जीवाए दुक्करं ॥ २५ ॥ व्याख्या - समता राग-द्वेषाकरणेन तुल्यता सर्वभूतेषु समस्तजन्तुषु शत्रु - मित्रेषु वा जगति लोकेषु त्रिषु । अनेन सामायिकमुक्तम् । प्राणातिपातविरतिः प्रथमव्रतरूपा यावज्जीवं दुष्करं दुरनुचरं 'एतदिति शेष: ' ॥२५॥ तथा तथा निच्चकालप्पमत्तेणं मुसावायविवज्जणं । भासियव्वं हियं सच्चं निच्चाउत्तेण दुक्करं ॥२६॥ व्याख्या–नित्यकालाप्रमत्तेनेत्यप्रमत्तग्रहणम्, निद्रादिप्रमादतो हि मृषाऽपि भाषेतेति नित्यायुक्तेन सदोपयुक्तेनानुपयुक्तस्यान्यथाऽपि भाषणसम्भवादेतच्च दुष्करं शेषं स्पष्टम् । यच्चान्वय–व्यतिरेकाभ्यामेकस्याप्यर्थस्याभिधानं तत् स्पष्टार्थमदुष्टमेवैवं सर्वत्र भावनीयम् ॥२६॥ दंतसोहणमाइस्स अदत्तस्स विवज्जणं । अणवज्जेसणिज्जस्स गिण्हणा अवि दुक्करं ॥२७॥ व्याख्या–‘मकारोऽलाक्षणिकोऽपिर्गम्यः' ततो दन्तशोधनादेरप्यतितुच्छस्यास्तामन्यस्यादत्तस्य विवर्जनम् । तथानवद्यस्यैषणीयस्य 'दत्तस्यापीति गम्यम्' । 'गिण्हण' त्ति ग्रहणमिति तृतीयव्रतं दुष्करमिति ॥२७॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002566
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy