SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ एकोनविंशं मृगापुत्रीयमध्ययनम् ५६१ व्याख्या-यथा किम्पाको वृक्षविशेषस्तस्य फलान्यतीव स्वादिष्टानि मृत्युकराणि च स्युः । ततो यथा किम्पाकफलानां परिणामः परिपाको न सुन्दरो न भव्यः । एवमिति तथा भुक्तानां भोगानां परिणाम इति ॥१७॥ अद्धाणं जो महंतं तु अपाहिज्जो पवज्जई । गच्छंतो से दुही होइ छुहा-तण्हाइपीडिओ ॥१८॥ व्याख्या-अध्वानं मागं यः पुमान् महान्तमपाथेयोऽशम्बलः प्रपद्यतेऽङ्गीकुरुते गच्छन् यथा स दुःखी भवति क्षुधा-तृष्णादिपीडितः सन् ॥१८॥ एवं धम्मं अकाऊणं जो गच्छड् परं भवं । गच्छंतो से दुही होइ वाही-रोगेहिं पीडिओ ॥१९॥ व्याख्या-एवमिति यथा पान्थोऽशम्बलस्तथा पाथेयोपमं धर्ममकृत्वा यो गच्छति परं भवं । गच्छन् स दुःखी भवति व्याधि-रोगैः पीडितः ॥१९॥ अद्धाणं जो महंतं तु सपाहिज्जो पवज्जई । गच्छंतो से सुही होइ छुहा-तण्हाविवज्जिओ ॥२०॥ एवं धम्मं पि काऊणं जो गच्छइ परं भवं । गच्छंतो से सुही होइ अप्पकम्मे अवेयणे ॥२१॥ व्याख्या-इदं गाथाद्वयं प्राग्गाथाद्वयव्यतिरेकेण व्याख्येयम् । नवरं 'सपाहिज्जो' सपाथेय इति अल्पकर्मा अवेदनः सन् ॥२०-२१॥ धर्मकारणाभिप्रायं द्रढयति जहा गेहे पलित्तंमि तस्स गेहस्स जो पहू । सारभंडाणि नीणेइ असारं अवउज्झई ॥२२॥ व्याख्या-यथा गेहे प्रदीप्ते प्रज्वलिते सति तस्य गृहस्य यः प्रभुः स्वामी स सारभाण्डानि महामूल्यवस्त्रादीनि 'नीणेइ' त्ति निष्काशयति । असारं जरद्वस्त्रादि 'अवउज्झइ' त्ति अपोहते त्यजति ॥२२॥ तथा एवं लोए पलित्तंमि जराए मरणेण य । अप्पाणे तारइस्सामि तुब्भेहिं अणुमन्निओ ॥२३॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002566
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy