________________
५६०
उत्तरज्झयणाणि-२ सूचकं दुःखहेतूनां क्लेशानां ज्वरादिरोगाणां भाजनम् ॥१२॥ यत एवमत:
असासए सरीरंमि रई नोवलभामहं ।
पच्छा पुरा य चइयव्वे फेणबुब्बुयसन्निभे ॥१३॥ व्याख्या अशाश्वते विध्वंसनशीलिनि शरीरे देहे रतिं चित्तस्वास्थ्यं नोपलभे न प्राप्नोमि । पश्चाद् भुक्तभोगावस्थायां वार्धक्यादौ पुराऽभुक्तभोगितायां वा बाल्यादौ त्यक्तव्येऽवश्यत्याज्ये फेनबुद्रुदसन्निभे क्षणदृष्टनष्टतया ॥१३॥ संसारनिर्वेदस्य हेतुमाह
माणुसत्ते असारंमि वाही-रोगाण आलए ।
जरा-मरणपत्थंमि खणं पि न रमामहं ॥१४॥ व्याख्या-मानुषत्वे असारे व्याधयः कुष्ठाद्या रोगा ज्वरादयः तेषामालये गृहे जरा-मरणग्रस्ते क्षणमपि न रमे नाभिरतिं लभेयमहमिति ॥१४॥ मनुष्यभवस्य निर्वेदहेतुत्वमभिधाय चातुर्गतिकसंसारस्य तदाह
जम्मं दुक्खं जरा दुक्खं रोगाणि मरणाणि य ।
अहो ! दुक्खो हु संसारो जत्थ कीसंति जंतुणो ॥१५॥ व्याख्या-अहो ! इति जीवसम्बोधनम् । 'दुक्खो हु'त्ति दुःखहेतुरेव संसारो जन्मादिनिबन्धनत्वात् तस्य । येऽत्र चातुर्गतिके संसारे क्लिश्यन्ति बाधामनुभवन्ति 'जन्मादिदुःखैरेवेति गम्यम्' जन्तवः प्राणिनः शेषं स्पष्टम् । नवरं जरा वृद्धावासः । रोगा आतङ्काः । मरणं मृतिः ॥१५॥ तथा
खेत्तं वत्थु हिरण्णं च पुत्त-दारं च बंधवा ।
चइत्ताणं इमं देहं गंतव्वमवसस्स मे ॥१६॥ व्याख्या-क्षेत्रं, वास्तु गृहं, हिरण्यं रुप्यमघटितसुवर्णं च, पुत्रं, दारा स्त्रियः, बान्धवा भ्रात्रादयः, एतत् सर्वं त्यत्क्त्वा [इमं देहं] गन्तव्यमवशेन मया । एतेनेष्टवियोगोऽशरणत्वं च संसारान्निर्वेदहेतुरुक्तः ॥१६॥ तथा
जहा किंपागफलाणं परिणामो न सुंदरो । एवं भुत्ताण भोगाणं परिणामो न सुंदरो ॥१७॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org