________________
एकोनविंशं मृगापुत्रीयमध्ययनम्
व्याख्या-सुगमं नवरं 'सरइ' त्ति स्मरति पौराणिकी जाति जन्म श्रामण्यं च पुरा कृतं जन्मान्तरानुष्ठितमिति ॥८॥ अथोत्पन्नजातिस्मरणोऽसौ यत् कृतवांस्तदाह
विसएहिं अरज्जंतो रज्जंतो संजमंमि य ।
अम्मा-पियरं उवागम्म इमं वयणमब्बवी ॥९॥ व्याख्या-सुब्ब्यत्ययाद् विषयेषु शब्दादिष्वरज्यन्नभिष्वङ्गमकुर्वन् रज्यन् रागं कुर्वन् क्व ? संयमे चाम्बा-पितरावुपागत्येदं वक्ष्यमाणं वचनमब्रवीदिति ॥९॥
तदेवाहसुयाणि मे पंच महव्वयाणि नरएसु दुक्खं च तिरिक्खजोणिसु । निम्विन्नकामो मि महन्नवाओ अणुजाणह पव्वइस्सामि अम्मो ! ॥१०॥
व्याख्या-श्रुतान्याकर्णितानि 'अन्यजन्मनीत्याशयः' । 'मे' मया पञ्च महाव्रतानि हिंसाविरत्यादीनि । तथा नरकेषु दुःखं च तिर्यग्योनिषु च दुःखं 'उपलक्षणत्वाद् देवमनुष्यभवयोर्दु:खं' 'श्रुतमिति योज्यम्' । ततश्च निर्विण्णकामो निवृत्ताभिलाषोऽस्मि अहं कुतः ? महार्णव इव महार्णवः संसारस्तस्मादतोऽनुजानीतानुमन्यध्वं 'मामिति शेषः' प्रव्रजिष्यामि 'अम्मो' त्ति हे अम्ब ! 'पूज्यतरत्वान्मातुरामन्त्रणम्' ॥१०॥ प्रव्रज्याहेतुवैराग्यमाह
अम्म ! ताय ! मए भोगा भुत्ता विसफलोवमा ।
पच्छा कडुयविवागा अणुबंधदुहावहा ॥११॥ व्याख्या-हे अम्ब ! हे तात ! मया भोगा भुक्ता विषफलोपमाः । यत एते पश्चात् कटुकविपाका अनिष्टपरिपाका आपातमधुरा इति भावः । अनुबन्धदुःखावहा अनवच्छिन्न-दुःखदायिनः, यथा हि विषफलमास्वाद्यमानमादौ मधुरं विपाके च कटुकं सातत्येन दुःखदायि चैवमेतेऽपीत्याशयः ॥११॥
इमं सरीरं अणिच्चं असुई असुइसंभवं ।।
असासयावासमिणं दुक्ख-केसाण भायणं ॥१२॥ व्याख्या-इदं प्रत्यक्षगतं शरीरं देहोऽनित्यमशुचि स्वाभाविकशौचरहितमशुचिसम्भवमशुचिरूपशुक्र-शोणितोत्पन्नम् । तथा अशाश्वतः कथञ्चिदवस्थित्वेऽप्यनित्य आवास: 'प्रक्रमाज्जीवावस्थानं' यस्मिन्नित्यशाश्वतावासं पुनरिदमित्यभिधानमत्यसारत्व
_Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org