SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ उत्तरज्झयणाणि-२ मणि-रयण-कुट्टिमतले पासायालोयणे ठिओ । आलोएइ नगरस्स चउक्क-तिय-चच्चरे ॥४॥ व्याख्या-स चैव क्रीडन् कदाचिन्मणयश्चन्द्रकान्ताद्याः, रत्नानि गोमेयकादीनि तैरुपलक्षितं कुट्टिमतलं यस्मिन् एवंविधे प्रासादालोकने सौधगवाक्षे स्थितः आलोकते कुतूहलतः पश्यति नगरस्य सुग्रीवनाम्नश्चतुष्क-त्रिक-चत्वराणि प्रतीतानि ॥४॥ अह तत्थ अइच्छंतं पासई समणसंजयं । तव-नियम-संजमधरं सील8 गुणआगरं ॥५॥ व्याख्या अथानन्तरं तत्रेति तेषु चतुष्कादिषु अइच्छंत'ति अतिक्रामन्तं गच्छन्तं पश्यति श्रमणं संयतं तपश्च प्रतीतं नियमश्च द्रव्याद्यभिग्रहात्मकः संयमश्च सप्तदशधा तान् धारयतीति तपो-नियम-संयमधरस्तमत एव शीलाढ्यं गुणानां ज्ञानादीनामाकरस्तम् ॥५॥ तं देहई मियापुत्ते दिट्ठीए अणिमिसाए उ । कहिं मन्नेरिसं रूवं दिट्ठपुव्वं मए पुरा ॥६॥ व्याख्या-तं श्रमणं संयतं 'देहइ'त्ति पश्यति मृगापुत्रो युवराजो दृष्ट्या 'तुरेवार्थे' अनिमिषयैव क्व मन्ये जाने ईदृशं रूपमाकारो दृष्टपूर्वं पूर्वमप्यवलोकितं मया पुरा पूर्वजन्मनि ॥६॥ साहुस्स दरिसणे तस्स अज्झवसाणंमि सोहणे । मोहं गयस्स संतस्स जाईसरणं समुप्पन्नं ॥७॥ व्याख्या-साधोदर्शने तस्य मृगापुत्रस्याध्यवसानेऽन्तःकरणपरिणामे शोभने क्षायौपशमिकभाववर्तिनि मोहं क्वेदं मया दृष्टमिति चिन्तासङ्घट्टजमूर्छारूपं गतस्य सतो जातिस्मरणमुत्पन्नम् । "दैवलोए चुओ संतो माणुसं भवमागओ । सन्निनाणसमुप्पन्ने जाई सरड़ पुराणियं" ॥१॥ ॥७॥ जाईसरणे समुप्पन्ने मियापुत्ते महिड्डिए । सरइ पोराणियं जाइं सामण्णं च पुराकयं ॥८॥ १. देवलोकाच्च्युतः सन् मानुषं भवमागतः । संज्ञिज्ञानसमुत्पन्नो जाति स्मरति पौराणिकीम् ॥१॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002566
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy