SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ एकोनविंशं मृगापुत्रीयमध्ययनम् इहानन्तराध्ययने भोगधित्याग उक्तस्ततश्च श्रामण्यं तच्चाप्रतिकर्मतया श्लाध्यं स्यादिति तत्प्ररूपकमेकोनविंशमध्ययनमारभ्यते । सुग्गीवे नयरे रम्मे काणणुज्जाणसोहिए । राया बलभद्द त्ति मिया तस्सग्गमाहिसी ॥१॥ व्याख्या-सुग्रीवाख्ये नगरे रम्ये मनोहरे काननै—हवृक्षाश्रयैर्वनैरुद्यानैरारामैः क्रीडावनैः शोभिते तत्र राजा बलभद्र इति नाम्नेति मृगा तस्य राज्ञोऽग्रमहिषी पट्टराज्ञी ॥१॥ तेसिं पुत्ते बलसिरी मियापुत्ते त्ति विस्सुए । __ अम्मा-पिऊण दइए जुवराया दमीसरे ॥२॥ व्याख्या-तयो राज-राज्योः पुत्रो बालको बलश्रीरिति मातृपितृदत्तनामा लोके च मृगापुत्र इति विश्रुतः ख्यातो मातृनाम्ना कृत्वा अम्बापित्रोदयितो वल्लभो विनीतत्वात् युवराजः । पुनर्दमिन उपशमिनस्तेषामीश्वर इवेश्वरः सहजोपशमभावतः स्वामी भाविकालापेक्षं चैतत् ॥२॥ नंदणे सो उ पासाए कीलए सह इत्थिहिं । देवो दोगुंदुगो चेव निच्चं मुइअमाणसो ॥३॥ व्याख्या-नन्दने लक्षणोपेततया समृद्धिजनके स मृगापुत्रः पुनः प्रासादे क्रीडति विलसति सह स्त्रीभिः । दोगुन्दकदेव इव 'चः पूरणे' दोगुन्दकाश्च त्रायस्त्रिंशाः, तथा चाऽऽहु:-"दोगुन्दुगा य देवा निच्चं भोगपरायणा । तायत्तिस त्ति वुच्चंति" इति नित्यं मुदितमानसो हृष्टचित्तः ॥३॥ १. दोगुन्दकाश्च देवा नित्यं भोगपरायणाः । त्रायस्त्रिंशा इत्युच्यन्ते । Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002566
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy