SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ ५५६ उत्तरज्झयणाणि-२ किञ्च अच्चंतनियाणखमा सच्चा मे भासिया वई । अतरिंसु तरितेगे तरिस्संति अणागया ॥५३॥ व्याख्या अत्यन्तमतिशयेन निदानं कर्मलवनं तत्र क्षमा सत्या 'मे' मया भाषिता वाक् जिनशासनमेवाश्रयणीयमित्येवंरूपा । अनयाऽङ्गीकृतया अतार्षुस्तीर्णवन्तस्तरन्त्येके सम्प्रत्यपि 'महाविदेहादावित्यर्थः' तरिष्यन्ति च [अनागता भाविनो] 'भवोदधिमिति शेषः' ॥५३॥ यतश्चैवमतो निगमयन्नाह कहं धीरे अहेऊहिं अत्ताणं परियावसे ? । सव्वसंगविणिम्मुक्के सिद्धे हवइ नीरए ॥५४॥ त्ति बेमि ॥ व्याख्या-कथं धीरोऽहेतुभिः पूर्वोक्तैरात्मानं पर्यावासयेत् ? कथमात्मानमहेत्वावासितं कुर्यादित्यर्थः । किं पुनरात्मनोऽहेतुवासनाया अकरणे फलम् ? इत्याह-सर्वे सङ्गा द्रव्यतो द्रविणादयो भावतस्तु मिथ्यारूपत्वादेत एव क्रियादिवादास्तैर्विनिर्मुक्तः सर्वसङ्गविनिर्मुक्तः सन् सिद्धो भवति नीरजाः कर्ममलहर्ता तदनेन अहेतुपरिहारस्य सम्यग्ज्ञानहेतुत्वेन सिद्धिः फलमिति ब्रवीमीति पूर्ववत् ॥५४॥ ग्रं० ११३२-२२॥ इति श्रीकमलसंयमोपाध्यायविरचितायां सर्वार्थसिद्धौ श्रीउत्तराध्ययनटीकायां संयतीयाख्यमष्टादशमध्ययनं समाप्तम् ॥१८॥ __Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002566
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy