SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ ५५५ अष्टादशं संयतीयमध्ययनम् यतितव्यममुत्रार्थे न प्रमाद्यं मनागपि । इत्याख्याय गुरून् नत्वा पितरौ गेहमीयतुः ॥६९॥ पञ्चभिर्मुष्टिभिः केशान् समूलमुदपाटयत् । उपेत्य विज्ञप्य गुरून् स चारित्रं समाददे ॥७०।। स स्वयं ग्राहितः शिक्षा गुरुणा पाठितः स्वयम् । महाबलोऽनगारोऽभूत् समित्यादिक्रियाऽद्भुतः ॥७१।। द्वादशाङ्गीधरः षष्ठाष्टमादिसुमहत्तपाः । समा द्वादश चारित्रं निर्मलं प्रत्यपालयत् ॥७२॥ आलोचितप्रतिक्रान्तो मासं संलिख्य सुस्थितः । ब्रह्मकल्पेऽभवद् देवो दशपाथोनिधिस्थितिः ॥७३।। तच्च्युतो वणिजग्रामनगरे श्रेष्ठिनोऽन्वये । सुदर्शन इति ख्यातनामा पुत्रोऽभवत् सुधीः ॥७४।। युवाऽसौ वर्धमानस्य श्रुत्वा भगवतो वचः । प्रबुद्ध संयमं लात्वा केवली सिद्धिमासदत् ।।७५।। प्रज्ञप्तिभणितस्तावदयमेको महाबलः । अपरोऽप्यवतार्यो वा श्रुतज्ञमतिगोचरः ॥७६।। इति महाबलचरित्रम् ॥५१॥ इत्थं महापुरुषोदाहरणैर्ज्ञानपूर्वकक्रियामाहात्म्यमभिधायोपदेष्टुमाह कहं धीरो अहेऊहिं उम्मतो व्व महिं चरे ? । एए विसेसमादाय सूरा दढपरक्कमा ॥५२॥ व्याख्या-कथं केन प्रकारेण धीरोऽहेतुभिः क्रियावाद्यादिपरिकल्पितैरुन्मत्तो ग्रहगृहीत इव तात्त्विकवस्त्वपलपनेन आलजालभाषितया महीं पृथ्वी चरेद् भ्रमेद् ? नैव चरेद्, धीरस्य भरतादिवत् तत्त्वज्ञानितयानुत्तरत्वात् । अत एवाह-यत एते भरतादयो विशेषं वैशिष्ट्यमन्मिथ्यादर्शनेभ्यो जिनशासनस्यादाय शूराः[दृढप्रराक्रमाः] सन्तः 'एतदेवाश्रितवन्त इति शेषः' । अतो भवतापि विशेषज्ञेन धीरेण च सता जिनाज्ञायामेव निश्चितं चेतो विधेयमिति तात्पर्यम् ॥५२॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002566
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy