________________
५५३
अष्टादशं संयतीयमध्ययनम्
सन्तोषसुखमूलाग्नि लोभोन्मादविवर्धनम् । मृत्यावावश्यकत्यागं स्ववशैस्त्याज्यमुत्तमैः ॥४१॥ जनकावथ चारित्रोद्वेजिनीभिरवोचतुः । गीभिर्यथा व्रतं वत्स ! कष्टपाल्यं भवादृशाम् ॥४२॥ चर्वणीया यवा लौहा दो· लथ्यो महोदधिः । पातव्याऽग्निशिखा दीप्ता यत् त्वमादत्ससे व्रतम् ॥४३।। प्रतिस्रोतसि गङ्गायाः कथं वत्स ! गमिष्यसि ? । कथं वा खड्गदारायां कथं दीक्षां चरिष्यसि ? ॥४४॥ ब्रह्म पाल्यं सदा नाधाकर्मभोज्यं तपोधनैः । सर्वे परीषहाः सह्या भूशय्या केशलुञ्चनम् ॥४५।। अस्नानं सततं भिक्षालब्धं वीतरसाशनम् । मृगचर्येत्यदः सर्वं सुखिनो दुष्करं तपः ॥४६।। त्वां च कष्टगतं भिक्षाचरं नष्टप्रतिक्रियम् । पश्यन्तौ वत्स ! जीवावः कथमावां गृहस्थितौ ? ॥४७॥ अथो महाबलोऽवादीदिहलोकैकचेतसाम् । अदीर्घदशिनां क्लीब-कातराणां जडात्मनाम् ॥४८॥ महाव्रतात्मको भारो दुर्बाह्यः क्षुद्रदेहिनाम् । लीलोत्पाट्यः सुधीराणां ज्ञातमोक्ष-भवाध्वनाम् ॥४९॥ मृत्युभीतो हि कृपणः कोटिं दद्यान्नरेशितुः । भवभीतस्तथा ज्ञानी किं न कुर्यात् सदुष्करम् ? ॥५०॥ पित्रोरगतमपि क्रियमाणप्रतिक्रियम् । अपि बालं नयत्यन्तमवशं मृत्युकेशरी ॥५१॥ प्राच्ये ह्युपनतेऽकस्माज्जीवानां कर्मण: फले । नैक्षि कस्यापि सामर्थ्य सुहृदो रटतोऽपि हि ॥५२॥ समुदायकृतं कर्म समुदायेन भुज्यते । चेद् युवामपि गृह्णीथो व्रतं तदतिसुन्दरम् ॥५३।। एवं दृढाशयं ज्ञात्वा पितरौ तं महाबलम् । अकामावप्यनुज्ञातवन्तौ तद्वतहेतवे ॥५४॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org