SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ अष्टादशं संयतीयमध्ययनम् ५४९ पराक्रमः काम - भोगान् परित्यज्य 'पहणे' त्ति प्रहतवान् कर्ममहावनमिति । तद् यथोचितं चरितम् — काश्यामग्निशिखो राजा जयन्त्यस्य प्रियाङ्गना । तद्भवः सप्तमो रामः पुत्रोऽभून्नन्दनाभिधः ॥१॥ दत्तः शेषवतीकुक्षिहंसस्तस्यानुजो हरिः । पितर्युपरते दोष्मान् भरतार्धमसाधयत् ॥२॥ नन्दनानुगतो राज्यश्रियं स्फीतमपालयत् । षट्पञ्चाशत्सहस्राशब्दायुर्धूमायामगान्मृतः ॥३॥ नन्दनोऽथ समादाय श्रामण्यं समताऽञ्चितः । ध्यानैकतानः सम्प्राप केवलज्ञानमुज्ज्वलम् ॥४॥ पञ्चषष्टिसहस्राब्दीमनुपाल्यायुद्भुतम् । सिद्धिं षड्विंशतिधनुःप्रमिताङ्गः प्रपेदिवान् ॥५॥ इति नन्दनचरित्रम् ॥४९॥ तव विजयओ राया आणट्ठाकित्ति पव्वए । रज्जं तु गुणसमिद्धं पयहित्तु महायसो ॥५०॥ व्याख्या - तथैव विजयो द्वितीयबलदेवः 'आणट्ठाकित्ति' त्ति आ समन्तात् नष्टा अकीर्तिर्यस्येत्यानष्टाकीर्तिः प्राव्राजीत् । तुशब्दस्याप्यर्थस्य व्यवहितसम्बन्धात् राज्यं गुणसमृद्धमपि प्रहाय महायशाः । तद् यथा— द्वारावत्यां ब्रह्मराज- सुभद्रानुजो हली । द्विपृष्ठवासुदेवस्याग्रजोऽभूद् विजयाख्यया ॥१॥ सोऽपि द्वासप्ततिसमालक्षायुषि च केशवे । मृते संवेगनिर्मग्नः प्रपेदे विशदं व्रतम् ॥२॥ स पञ्चसप्ततिशरल्लक्षायुरथ चोच्छ्रितः । धनूंषि सप्ततिः प्राप्य केवलं शिश्रिये शिवम् ॥३॥ इति विजयो द्वितीयो बलदेवः ||५० ॥ तहेवुग्गं तवं किच्चा अव्वक्खित्तेण चेयसा । महाबलो रायरिसी आदाय सिरसा सिरिं ॥ ५१ ॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002566
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy