SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ ५४८ परीषहपराभूतः प्रत्यादातुं महीशताम् । अयमागान्नृपोऽवादीदादत्तामस्य सा यतः ॥ १६२॥ अमात्योऽप्यवदन्नेयं नीतिरित्येवमादिना । व्युद्ग्राह्य क्षितिभृच्चित्तं दुष्टश्छिद्राण्यमार्गयत् ॥ १६३॥ दधि यस्या गृहे साधुर्लाति तां पशुपालिकाम् । प्रलोभ्य दध्नि स विषमक्षेपयदधार्मिकः ॥ १६४॥ त्रिर्भक्तदेवता पात्रात् तद् दधि द्रागलोठयत् । व्यग्रायां चान्यदा तस्यां लात्वा तद् बुभुजे मुनिः ॥ १६५ ॥ उपयुक्तस्ततो ध्यानी स राजर्षिरनाकुलः । त्रिंशद् दिनान्यनशनी निष्कर्मा प्राप निर्वृतिम् ॥१६६॥ ऋषिघातमहापापं केनापि न हि वारितम् । इति कोपारुणा देवी नगरं तत् सनागरम् ॥१६७॥ पूरयित्वा पांशुपूरेरुत्तुङ्गं स्थलमातनोत् । पापानुमतिसम्बन्धादनर्थो हि न संशयः ॥ १६८ ॥ न मां न्यवीविशद् राज्ये मत्पितेत्यभ्यसूयया । पुराऽप्यभीचिश्चम्पायां भेजे कोणिकभूभुजम् ॥१६९ ॥ स तत्र तत्प्रसादेनाभुङ्क्त भोगान् यथेप्सितम् । सम्यक्त्वाणुव्रताद्यं च सुश्राद्धत्वमधारयत् ॥ १७०॥ किन्तूदायनभूपाले पितर्यत्यक्तमत्सरः । संलिख्योपोषितो मासमनालोचिततत्पदः ॥ १७९॥ मृत्वाऽसुरकुमारोऽभूत् पल्यायुः स ततश्च्युतः । नृजन्माप्य विदेहेषु कर्म निष्ठाप्य सेत्स्यति ॥ १७२ ॥ इति उदायनचरित्रम् ॥४८॥ उत्तरज्झयणाणि-२ तहेव कासीराया सेओ - सच्च - परक्कम | काम - भोगे परिच्चज्ज पहणे कम्ममहावणं ॥ ४९ ॥ व्याख्या - तथैव तेनैव प्रकारेण काशिराजः काशिमण्डलाधिपतिर्नन्दनाभिधानः सप्तमबलदेव इत्यर्थः । श्रेयसि प्रशस्ये सत्ये संयमे पराक्रमो यस्येति श्रेयः - सत्य Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002566
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy