________________
५४६
मा कुरु व्यर्थमायासं नैषाऽर्चाऽलङ्करिष्यति । त्वत्पुरीमित्यसौ श्रुत्वा वैलक्ष्ययुगभूद् भृशम् ॥१३४॥
यदर्थमयमारम्भस्तस्यार्थस्येति वैशसम् । सम्पन्नमिति नो विद्मस्तत्र किं भावि वर्तते ? ॥ १३५ ॥
उत्तरज्झयणाणि-२
ध्यात्वेत्युदायनः स्वस्मै विषयाय न्यवर्तत । मालवानात्मसात् कृत्वा सह नीत्वा तदीश्वरम् ॥१३६॥
विचाले प्रावृषा रुद्धः स्कन्धावारं न्यवीविशत् । वप्रान् दशापि राजानः कृत्वाऽस्थुः परितो नृपम् ॥१३७॥ ततो दशपुरं जज्ञे यच्च भुङ्क्ते नरेश्वरः । तत् प्रद्योतोऽपि यद् गृहीतपौषधे पर्युषणापर्वणि भूधवे । प्रद्योतमवदत् सूपकारोऽद्याश्नासि किं वद ? ॥१३९॥
भोज्ये वैरिणोऽपि न वञ्चनम् ॥१३८||
किमद्य पृच्छ्यते नूनं मारयिष्यति मां विषात् । नित्यं सह नृपेणैव भोक्तुः प्रश्नः किमन्यथा ? ॥१४०॥ प्रद्योतमिति साशङ्कं पुनः प्रोवाच पाककृत् । अद्य पर्युषणा राजोपोषितोऽस्तीति पृच्छ्यते ॥ १४१ ॥ सोऽप्याह कैतवात् पर्वावजग्मे न मयाऽद्य हा ! । साधु ज्ञापितवानेतदहमप्यस्म्युपोषितः ॥ १४२ ॥ ममापि पितरौ श्राद्धौ मोहाज्जातः प्रमाद्यहम् । अप्रत्याख्यानिना ह्यस्मिन् कथं स्थेयं सुपर्वणि ॥१४३॥ इति प्रद्योतवचनं सोऽपि राज्ञे न्यवेदयत् । सोऽपि सुश्रावको दध्यौ कैतवीति विदन्नपि ॥ १४४॥ न शुध्यति प्रतिक्रान्तिर्बद्धेऽस्मिन् मम वार्षिकी । अवस्थितकषायाणां यदेषा न हि तात्त्विकी ॥ १४५ ॥ प्रद्योतमथ सत्कृत्य क्षामयित्वाऽस्य मूर्धनि । तदक्षरापनोदाय हेमपट्टमबन्धयत् ॥१४६॥ पुनर्मालवसाम्राज्यं प्रद्योताय प्रदाय सः । स्वयं वीतभये राज्यमन्वशाच्छ्रीउदायनः ॥ १४७॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org