SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ ५४५ अष्टादशं संयतीयमध्ययनम् धार्मिकस्तव स स्वामी ताम मर्चयत्वलम् । या तन्नियमनिर्वाहकृते मुक्ता मया तदा ॥१२०।। उदासे सिन्धु-सौवीरांस्तस्याहमकुतोभयः । पालयत्वेष तान् जीवन्नदाता प्रतिमा पुनः ॥१२१।। वेपमानतनुर्दाता प्रतिमामागते नृपे । इति चाख्याय दूतः स्राग् व्यावृत्त्यागात् स्वपत्तनम् ॥१२२॥ अथोदायनभूपालश्चचाल पृतनावृतः । मौलिबद्धदशक्ष्मापैः सस्वसैन्यैरुपस्कृतः ॥१२३।। प्रयाणैरनवच्छिन्नैर्भानुशोषितविष्टपे । ग्रीष्मकाले पथाऽऽयातं स विवेश मरुस्थलम् ॥१२४॥ तत्रातिशयसामर्थ्यात् तृषा नीरसनीवृति । भृशमभ्यभवत् सैन्यं छलमाप्येव दुर्जनः ॥१२५।। कटके मर्तुमारब्धे निष्प्रतीकारया तृषा । नृपः प्रभावतीदेवं लघ्वागमनमस्मरत् ॥१२६।। आगत्यावेत्य तवृत्तं स विचक्रे त्रिपुष्करम् । आदि-मध्यावसानेषु मरूणामुल्लटज्जलम् ॥१२७॥ अथ तज्जीवन-स्नान-पानसज्जबलो नृपः । गतोऽवन्तीमभिमुखायातं प्रद्योतमब्रवीत् ॥१२८॥ किं वृथा मारितैवीरैरङ्गयुद्धं तदावयोः । अस्तु द्विप-रथाश्वादिसदृग्वाहनसंस्थयोः ॥१२९॥ रणो रथस्थयोरस्तु प्रतिश्रुत्येति सोपधिः । प्रद्योतोऽनलशैलेभमारुह्यागाद् रणाजिरम् ॥१३०॥ वाग्भ्रष्टोऽसौ जगभ्रष्टो भावीति द्रागुदायनः । इभस्योत्क्षिप्तमुत्क्षिप्तं बाणैश्चरणव्यधीत् ॥१३१॥ एवं चापतदुग्रेभः प्रद्योतश्चोत्तरंस्ततः । बद्धो भाले पतिर्दास्या इत्यस्याङ्कः कृतोऽयसा ॥१३२।। मध्येऽवन्ति प्रविश्याथाभ्यार्चा माझंदर्हतः । यावदुत्पाटयामास तावन्नभसि वागभूत् ॥१३३।। Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002566
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy