________________
५४३
अष्टादशं संयतीयमध्ययनम्
दर्शयित्वा सुरोऽपि स्वं तामावेद्य प्रतिश्रुतिम् । नृपं धर्मे दृढीकृत्य प्रीतः प्राप सुरालयम् ॥९२।। आस्थानीस्थं स्वमैक्षिष्ट नृपतिस्त्यक्तदुर्मतिः । श्राद्धीभूतोऽथ कुरुते सत्क्रियाः श्रावकोचिताः ॥९३॥ इतश्च श्राद्धो गान्धारो जिनजन्मादिभूमिकाः । नत्वा वैताढ्यमूलेऽगान्नन्तुं श्रीशाश्वतार्हतः ॥९४॥ तत्र तस्याष्टमात् तुष्टा देवता शैलमूर्धनि । तं निनाय ववन्देऽसौ नित्यार्हत्प्रतिमा मुदा ॥९५॥ भूयोऽप्यानीय वैताढ्यादधोऽमुञ्चदिमं सुरी । शतमष्टोत्तरं तुष्टा तस्मै सा गुटिका ददौ ॥९६।। यद्वाञ्छयैनामास्ये त्वं क्षेप्ता सा लघु सेत्स्यति । इत्याख्याय तिरोभूता सुरी सोऽपि ततोऽचलत् ।।९७।। क्रमात् तां चान्दनीं जीवत्स्वामिमूर्ति नमस्यितुम् । आगाद् वीतभयं वीरं वन्दित्वा मुमुदेतमाम् ॥९८॥ उत्पन्नरुक् तत्र देवदत्तया परिचारितः । सज्जीभूतः कृतज्ञस्तददत्तास्यै गुटीशतम् ॥१९॥ कक्षीचक्रे स्वयं दीक्षामथ कुब्जाऽऽहरद् गुटीम् । मम ध्मातजातरूपरूपताऽऽशु भवत्विति ॥१००।। तत्प्रभावादसौ तादृग् रूपसम्पदभूत् क्षणात् । सुवर्णगुलिकेत्याख्यां लेभे रम्भानिभा जनात् ॥१०१॥ अथ भोगार्थिनी दध्यौ मत्पितोदायनो नृपः । अन्ये त्वस्य नृपाः प्रेष्यास्तत् प्रद्योतोऽस्तु मे पतिः ॥१०२।। अनया वाञ्छया प्राश गुटीमेकां विचक्षणा । तद्देवताऽनुभावेन तद्रक्तोऽभूत् स भूपतिः ॥१०३।। स दूतीं व्यसृजत् तस्यै साऽजूहवदमुं तया । गजेऽनलगिरौ सोऽप्यारुह्यागान्निशि वेगवान् ॥१०४|| तयाऽभिरुचितायास्मै प्रोचेऽर्चामाईती यदि । साधू नयसि तदहमागच्छाम्यन्यथा व्रज ॥१०५।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org |