________________
५४२
उत्तरज्झयणाणि-२ इति स्थिराशयां देवीं वदन्तीमाह भूपतिः । अस्तु तेऽभिमतं किन्तु प्रबोध्योऽहं यथा तथा ॥७८॥ अथाङ्गीकृत्य तद्वाचं प्रपद्यानशनं सुधीः ।। मृत्वा प्रभावती कल्पे प्रथमेऽभूत् सुरोत्तमः ॥७९॥ देवदत्ताऽभिधा कुब्जा चेटी तां मूर्तिमर्हतः । शुश्रूषते क्षमाऽधीसे जिनधर्मप्रमादिनि ॥८०॥ देवस्तु प्रत्यहं राज्ञः प्रबोधोपायमादधे ।। स तु तापसदृग्मूढो बुबोध च कथञ्चन ॥८१।। अथ प्रभावतीदेवोऽन्यदा तापसरूपभृत् । अढौकयत् सुधास्वादुफलानि नृपतेः पुरः ॥८२॥ आस्वाद्य तानि भूजानिः कुत्रैतानीत्युवाच तम् । आश्रमे नगरादूरवतिनीत्यभणद् व्रती ॥८३।। रसज्ञारसवश्योऽसौ समं तेनाश्रमं गतः । तापसैर्भीषणाकारैर्दृढं हन्तुं प्रचक्रमे ।।८४|| विश्वस्यैभिरहं पश्यन् नीत एको निजाश्रमम् । प्रक्रान्तो वैरिभिरिव हन्तुं भक्तोऽपि पापिभिः ॥८५॥ इति नश्यन् नृपो दूरं वने तत्र तरोस्तले । दान्त-शान्तान् मुनीन् दृष्ट्वा शरणं तानुपागमत् ॥८६।। मा भीरिति समाश्वास्य ते सज्जा: साधवोऽभवन् । तापसेषु निवृत्तेषु तमाहुर्मधुरस्वरम् ॥८७।। "धर्म एव भयार्तानां त्राणायेह परत्र य । परीक्षयेच्च धर्मार्थी देवं धर्म गुरूनपि ॥८८॥ वीतरागस्तत्र देवः शुद्धो धर्मो दयामयः । गुरुर्ब्रह्मधरस्त्यक्तसर्वसङ्गो जगद्धितः ॥८९॥ इति रत्नत्रयस्थैर्यसुधाधौतमनाः स्थितः । कुर्वन् पुण्यानि लभते सुखं स्वर्गापवर्गयोः" ॥१०॥ तत् तापसेषु दौरात्म्यं माहात्म्यं चैषु साधुषु । वीक्ष्य क्षितीशः प्रत्यक्षं प्रबुद्धो जैनतां दधौ ॥९१॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org