________________
५४१
अष्टादशं संयतीयमध्ययनम्
हस्तकाभिनयोपेतं सा नृत्यत्यर्हतः पुरः । तत्रोपवीणयामास कलकण्ठो नृपः स्वयम् ॥६४॥ अन्यदाऽतिरसं प्राप्तेऽभिनये क्षितिपः शिरः । अप्रेक्ष्य श्रीप्रभावत्या विषण्णो व्यग्रमानसः ॥६५॥ वीणामपातयत् पाणेः क्रुद्धा देवी ततोऽलपत् । मया दुरभिनीतं किं क्षिप्ता येन विपञ्चिका ? ॥६६।। आख्यत् क्षितिपतिः कान्ते ! मा कुप्योऽनपराधिनि । भ्रान्तोऽस्मि तव शीर्षेऽहं च्युतवीणोऽस्मि तच्छुचा ॥६७॥ देव्यूचे किं शुचा स्वामिन् ! निष्कलङ्को मया दधे । की भीर्मृत्योः पवित्रश्चेद् धर्मः सुचिरमार्हतः ॥६८॥ दृढप्रेमाऽसि चेन्नाथ ! वैधयं तत् परित्यज । वैधादिष्टयोः शिष्टैवियोगोऽमुत्र निश्चितः ॥६९।। इति प्रियागिरा किञ्चिज्झाततत्त्वोऽपि तापसीम् । भक्तिं त्यक्तुं न शेकेऽसौ दृष्टिरागो हि दुस्त्यजः ॥७०॥ अन्यदाऽर्चाक्षणे चेट्युपानयद् धौतपोतिकाम् । वीक्ष्य तां महिषी रक्तां रोषरक्तेक्षणा क्षणात् ॥७॥ अरेऽनवसरज्ञाऽसि कोऽयं रक्ताम्बरक्षणः ? | इत्युक्त्वा मुकुरेणैनां जघानौज्झच्च साऽप्यसून् ॥७२।। स्वाभाविकांशुकं दृष्ट्वा मृतां चैतां व्यचिन्तयत् । राज्ञी धिग् मां भग्ननिजव्रतां निष्फलजीविताम् ।।७३।। आसन्नमृत्युरेतर्हि स्वार्थं शुद्धिदमात्मनः । साधयमीत्यनशनमयाचत धरेश्वरम् ॥७४।। राजाऽऽह स्नेहमुज्झित्वा किमुक्ता रूक्षगीरियम् ? । त्वद्वियोगासहिष्णोर्मे ह्यदः प्राणहरं वचः ॥७५।। सत्त्ववानस्मि शूरोऽस्मि सर्वत्र रणकेलिषु । परं कातर एवास्मि त्वद्वियोगाब्धिलङ्घने ॥७६।। अयमासन्न एवैष्यन् वियोगः केन वार्यते ? । प्रसीद साधयाम्यर्थं दुष्प्रापोऽन्त्यजनुःक्षणः ॥७७।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org