________________
५४०
उत्तरज्झयणाणि-२ निर्विघ्नं प्राप्स्यसे वीतभयं वीतभयं पुरम् । इत्युक्त्वा सम्पुटं द्त्वाऽऽत्मना देवस्तिरोदधे ॥५०॥ तीर्णोदधिर्वणिग् वीतभयं प्राप्तोऽथ भूपतेः । सम्पुटं पुरतो मुक्त्वोवाच व्याहृतमामरम् ॥५१॥ मिमेल प्रकृतिः सर्वा नृपतिस्तापसाश्रवः । दध्यौ ब्रह्माच्युतेशानां नाम्नाऽयं विघटिष्यते ॥५२॥ सृष्टि-पालन-संहारकर्तारोऽमी जगन्मताः । एभ्यो देवाधिदेवोऽन्यस्तापसैन निगद्यते ॥५३।। इति ध्यात्वा नृपस्तत्तन्नाम-स्थामादिवर्णनैः । परशुं वाहयामास सुतीक्ष्णमधिकारिभिः ॥५४॥ स तु तद्धातमात्रेण धाराभङ्गमवाप्नुवन् । मिथ्यावादाद् रुष्ट इव विससर्जानलान् कणान् ॥५५॥ अरे ! रागोरगग्रस्ता देवदेवा भवन्मुखैः । ख्याता इति रुषा तैरज्वालि कौठारिकाननम् ॥५६।। सामर्थ्यपतितो व्यर्थीभूतः परशुरुत्पतन् । अस्फोटयच्छिरो मिथ्यादृशां कुग्रहशालिनाम् ॥५७।। यो यस्याभिमतो देवः स तन्नाम्ना परश्वधम् । अवाहयत् परं नाप वैलक्ष्यादपरं नरः ।।५८॥ अथास्मिन्ननुपरते चित्रे व्यतिकरे तदा । आगाद् राज्ञो महादेवी तत्त्वविज्ञा प्रभावती ॥५९।। तया सम्पुटमभ्यर्च्य भणितं सुपवित्रया । जिनो देवाधिदेवोऽर्हन् ददातु निजदर्शनम् ॥६०॥ अथ व्यापारितेऽपीपत् कुठारे व्यभजत्तराम् । सम्पुटं प्रादुरासीच्च मूर्तिः श्रीचरमार्हतः ॥६१॥ अम्लानमाल्यसर्वाङ्गप्रतिपूर्णाऽथ चान्दनी । दृष्टा प्रतिकृतिर्जुनी दृग्नैर्मल्यं व्यधान्नृणाम् ॥६२॥ अन्तःपुरे जिनगृहे तां संस्थाप्य महोत्सवैः । त्रिसन्ध्यमर्चयत्येव नित्यं स्नाता प्रभावती ॥६३॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org