________________
५३९
अष्टादशं संयतीयमध्ययनम्
स्थित्या पटहकोऽकस्माद् विद्युन्मालिगलेऽपतत् । उत्तारितोऽप्याभियोग्यात् तद्गलं नैव मुञ्चति ॥४०॥ निविण्णो वादयन्नास्ते तावता नागिलामरः । पुरोऽभ्येत्य जगादेनं तत्कृपाऽल्पीकृतद्युतिः ॥४१॥ मां भोः ! प्रत्यभिजानासि प्राहासौ को न वेद वः ? । ततो मूढमिमं ज्ञात्वा प्राच्यरूपी सुरोऽभणत् ॥४२॥ वारितोऽपि मयाऽकार्षीर्यत् कार्यमधमोचितम् । इदानीं तत्फलं भुझ्व कि मुधा परिताम्यसि ? ||४३॥ संविग्नोऽसौ ततः प्रोचेऽधुनाऽऽख्याहि ममोचितम् । तदा मया न मूढेन मेने मित्र ! क्षमस्व तत् ॥४४।। "सुरोऽप्याख्यद् वर्धमानस्वामिनः प्रतिमां मुदा । स्वयं कृत्वा तदर्चायां प्रवर्तय बहून् जनान् ॥४५॥ एवं सम्यक्त्वबीजाप्तिरवन्ध्या ते भविष्यति ।
एतदेवाविरतानां मुख्यं पथ्यं श्रुतोदितम्" ॥४६।। उक्तञ्च
"जो कारवेइ पडिमं जिणाण जियराग-दोस-मोहाणं । सो पावइ अन्नभवे सुहजणणं धम्मवररयणं ॥१॥ दारिदं दोहग्गं कुजाइ-कुसरीर-कुगइ-कुमईओ। अवमाण-रोय-सोया न होति जिणबिम्बकारीणं" ॥२॥ ततोऽसौ हिमवच्छीर्षाद् गृहीत्वा दारु चान्दनम् । निर्वर्त्य वीरप्रतिमामक्षिपत् काष्ठसम्पुटे ॥४७॥ षण्मासोत्पातपतिततपोतस्योद्घान्तचेतसः । सांयात्रिकस्योत्पातं तं निवासावुवाच खे ॥४८॥ गृहाण सम्पुटं देवाधिदेवप्रतिमाऽऽश्रयम् ।
अयं विशिष्टतन्नाम्नाऽऽहत्योद्घाट्यः शुभाशयैः ॥४९॥ १. यः कारयति प्रतिमां जिनानां जितराग-द्वेष-मोहानाम् ।
स प्राप्नोत्यन्यभवे शुभजननं धर्मवररत्नम् ॥१॥ २. दारिद्यं दौर्भाग्यं कुजाति-कुशरीर-कुगति-कुमतयः ।
अपमान-रोग-शोका न भवन्ति जिनबिम्बकारिणाम् ॥२॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org