________________
५३६
उत्तरज्झयणाणि-२ सोवीररायवसभो चिच्चा रज्जं मुणी चरे ।
उदायणो पव्वइओ पत्तो गइमणुत्तरं ॥४८॥ व्याख्या-अर्थः पूर्ववन्नवरं सौवीरेषु सिन्धु-सौवीरदेशेषु राजवृषभः सौवीरराजवृषभः । तच्चरित्रं यथा
पुरे वीतभयाभिख्ये सिन्ध-सौवीरनीवृति । आसीदुदायनो राजा राजधुतिनिकेतनम् ॥१॥ प्रभावत्यस्य महिषी श्रीवीराज्ञाप्रभाविका । अभीचिरिति तत्पुत्रो ज्येष्ठोऽभूद् यौवराज्यभाक् ॥२॥ क्षितीशः सिन्धु-सौवीरमुख्यषोडशनीवृताम् । सत्रिषष्टिशतस्फीतनगराणां सुसम्पदाम् ॥३॥ दशानां बद्धमौलीनां महीसेनादिभूभृताम् । अन्येषामपि वीरेभ्य-सामन्तामात्यसंसदाम् ॥४॥ पौरोवृत्त्यमाधिपत्यमाज्ञैश्वर्यं च पालयन् । शशासोदायनः पृथ्वीं मघवेव त्रिविष्टपम् ।।५।। त्रिभिर्विशेषकम् इत: कुमारनन्द्यस्ति चम्पायां स्वर्णकृत् परि । स्त्रीलोलोऽसौ चतुर्वर्गे कामं कामममानयत् ॥६॥ यत्र यत्राद्धृतां कन्यां वीक्षते वा शृणोति वा । स्वर्णपञ्चशतीं दत्त्वा तां तां गृद्धो व्यवाहयत् ॥७॥ अपिण्डयत् पञ्चशतीमेष सद्वेषयोषिताम् । अालुरविश्वासी द्वारि तिष्ठन् जुगोप ताः ॥८॥ गोपिता अपि तिष्ठन्ति न नार्यों हि निरर्गलाः । अगोपिता अपि न्याय्ये सत्यस्तिष्ठन्ति वमनि ॥९॥ स्वैरं भुङ्क्ते स्म ता लुब्धोऽन्यप्रवेशमसासहि: । तथापि न तुतोषासौ काष्ठैरिव महादवः ॥१०॥ अन्यदा पञ्चशैलाख्यद्वीपेशामर्त्यजाययोः । हासा-प्रहासयोर्विद्युन्माल्यकस्माच्च्युतः पतिः ॥११॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org