________________
अष्टादशं संयतीयमध्ययनम्
५३५ तादृक् पौरन्दरं वीक्ष्यानुपमानद्धिवन्दम् । नृपो गलितगर्वोऽन्तः शान्तात्मेति व्यचिन्तयत् ॥५८॥ "अहो ! तुच्छस्वभावोऽहं यन्मृत्खण्डैकसाध्यया । तुच्छश्रियाऽवलिप्तोऽस्मि शक्र-चक्र्यादिहीनया ॥५९।। माद्यन्तदृष्टभद्रौघाः स्तोकेनापि हि बालिशाः । मूषको व्रीहिमास्वाद्य नृत्यत्युच्चैर्मुखो मुदा ॥६०॥ शुद्धधर्ममकार्षीत् प्राग्जन्मन्येष ततोऽधुना ।। हरिः प्रापेदृशीं लक्ष्मी किं न कुर्वे तदस्म्यपि ? ॥६१।। समाङ्गावयवोऽप्यन्यं नरोऽभ्येति नरं मुदा । स हि पुण्याधिकः पुण्यं न सोऽपि विदधातु किम् ?" ॥६२॥ इत्यादि भावयंस्त्यक्तमोहनिद्रो महीपतिः । आददे संयमं वीरान्निविण्णः स महत्तरः ॥६३।। ततो ननाम तं शक्रः प्रशशंस च वीप्सया । जितोऽस्म्यमुत्राशक्तोऽस्मि धीरात्मन् ! दुर्धर व्रते ॥६४।। जय सत्यप्रतिज्ञोऽसि कृतदुष्करवन्दनः ।
स्तुत्वेति स्वर्ययौ शक्रः परोऽप्यर्थमसाधयत् ॥६५।। इति दशार्णभद्रः ॥४४॥
तथा
नमी नमेइ अप्पाणं सक्खं सक्केण चोइओ। चइऊण गेहं वइदेही सामण्णं पज्जुवट्ठिओ ॥४५॥ करकंडू कलिंगेसु पंचालेसु य दुम्मुहो । नमी राया विदेहेसु गंधारेसु य नग्गई ॥४६॥ एए नरिंदवसभा निक्खंता जिणसासणे ।
पुत्ते रज्जे ठवेऊणं सामन्ने पज्जुवट्ठिया ॥४७॥ व्याख्या-सर्वा गाथा: सुगमाः । एतच्चारित्राणि प्राक् कथितानि नवमेऽध्ययने ततो ज्ञेयानि । नवरं सक्खं सक्केणेति साक्षात् प्रत्यक्षं शक्रेण इन्द्रेण चोदितः प्रेरितः
॥४५-४६-४७||
_Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org