________________
अष्टादशं संयतीयमध्ययनम्
स्वल्पो लाभ इति स्वान्ते न तुष्टस्तदपि प्रियाम् । स्मरन् निवृत्तो देशाय विशश्राम वने क्वचित् ॥३०॥ इतो दशार्णभद्रोऽश्वापहृतस्तत्र भूपतिः । श्रान्तो मध्यन्दिनेऽभ्यगादेक एव तृषातुरः ॥३१।। उपाचरत् स तं प्रीत्या हयोत्पर्यणनादिभिः । आनीय शिशिरं नीरमपाययदवीजयत् ॥३२॥ अथास्तीर्य निजं वस्त्रं व्यश्रामयदवार्तयत् । अरञ्जयन्महीनाथमार्जवाहितसेवया ॥३३॥ प्राप्ते परिजने राज्ञोपकारीत्ययमादरात् । सत्कृत्याभाषितः कोऽसि कुतो वा किंचिकीरिति ? ॥३४॥ यथास्थितमसौ सर्वं नृपायाज्ञापयत् तदा । ऋद्धिं ययाचे पूजाऽर्थमुर्वीशोऽथेत्यचिन्तयत् ॥३५।। अत्यन्तर्जुर्वराकोऽयमङ्गनैकवशंवदः । तद्विप्रतारितश्चैवं परिभ्रमति मेदिनीम् ॥३६।। नयाम्येनं पुरं तावत् ततः कर्ता यथोचितम् । इतीशः सह नीत्वैनं दशार्णपुरमभ्यगात् ॥३७॥ तस्मै सम्पादयामास सर्वं भोज्याम्बरादिकम् । स्वदेवा!द्यतो धर्मपुरुषोऽयमितीशिता ॥३८॥ अत्रान्तरे समवसृतं दशार्णगिरिमूर्धनि ।। वीरं विज्ञपयामासोद्यानपालो महीभृते ॥३९।। अस्मै दत्त्वेप्सितं दानं वीरं नत्वा च भावतः । प्रवर्धमानसद्भाववैभवोऽचिन्तयन्नृपः ॥४०॥ "तादृग्विवेकचातुर्यत्यक्तोऽप्येष महत्तरः । यद्येवं क्लिश्यति स्वेष्टदेवताऽर्चनसम्पदे ॥४१॥ तदस्माकं विवेकश्रीमुख्यसंयोगशालिनाम् । विधातुं युज्यते पूजा विशेषात् त्रिजगद्गुरोः ॥४२॥ श्लाध्यं तदेव साम्राज्यं यज्जगद्गुरुवन्दने । उपयोगि भवेच्छेषं दुर्गत्येकविपत्फलम् ॥४३॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org