________________
५३१
अष्टादशं संयतीयमध्ययनम्
दयिताऽस्य सुदुःशीला तलारक्षसुतं रहः । भुङ्क्ते स्वपतिपारोक्ष्ये राक्षस्यो हि मृगेक्षणाः ॥२॥ नटपेटकमध्यस्थोऽन्यदा स्त्रीवेषवान् नटः । अनृत्यत् तरुणः कोऽपि सा तत्राजनि रागिणी ॥३॥ चतुरा च्छन्नमागत्यावादीन्नटमहत्तरम् । चेदनेनैष वेषेण भुङ्क्ते मां निर्भर रहः ॥४॥ सुवर्णाष्टशती देया मयैतस्मै तदा ध्रुवम् । इत्यङ्गीकार्य तत् ज्ञापयित्वाऽध्वानं गृहं गता ॥५॥ पायसी तत्कृतेऽराध्यत् तावत् सोऽप्यागमन्नटः । क्रमौ प्रक्षाल्य तां भोक्तुमुपाविक्षत् क्षणेन सः ॥६॥ तं कटाक्षयमाणा सा हुँ भृझ्वाश्विति वादिनी । तस्य सर्पिः-सितामिश्रां पायसी पर्यवेषयत् ॥७॥ यावन्नाद्याप्यसौ भुङ्क्ते तावद् द्वारि स दण्डिकः । आगादकाण्डे तां रन्तुं ततो बालाऽवदन्नटम् ।।८।। प्रभी: प्रविश निःशङ्कमुत्तिष्ठ तिलकोष्ठकम् । परतः प्रेषयाम्येनं यावत् सोऽपि तथाऽकरोत् ॥९॥ तलारक्षोऽविशत् क्षिप्रं क्षैरेयीं वीक्ष्य भाजने । पद्माक्षि ! प्रागिमां भोक्ष्ये ततस्त्वामिति तामवक् ॥१०॥ क्षुधाऽऽर्ताऽस्म्यधुना याहि दक्ष ! नायं क्षणः स्थितेः । इत्युक्तोऽपि बलाद् भोक्तुं पायसीमासनेऽविशत् ॥११॥ स करोति करं स्थाले यावत् तावददःपतिः । शिश्राय निलयद्वारं ततः सोवाच दण्डिकम् ॥१२॥ त्वर त्वर विनष्टोऽसि तिलापवरकं श्रय । स्थेयं द्वारेऽस्त्यहिदूर भीत: सोऽपि तथा व्यधात् ॥१३॥ आयातोऽस्याः पतिः प्रोचे किमेतदथ साऽलपत् । समुत्पेदेऽभिलाषोऽस्यां भोक्ष्येऽहमिति पायसीम् ॥१४॥ मदर्थमीदृशीमेनां नाकार्षीः कर्हिचित् ततः । प्रिये ! तदेतामास्वाद्य जिह्वा मेऽस्तु फलेग्रहिः ॥१५।।
___Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org