________________
५२९
अष्टादशं संयतीयमध्ययनम्
स्वभावस्थो महापद्ममितराश्च यथोचितम् । समुपालभ्य शान्तात्मा बाह्योद्यानमशिश्रियत् ॥१४०॥ तदालोच्य प्रतिक्रम्य स मुनिर्व्यवहारतः । विजहार यत: सूत्रे तदालोच्यं न निश्चयात् ।।१४१॥ क्रमात् केवलमासाद्य सिद्धिसम्बन्धभागभूत् । महापद्मोऽपि षटखण्डमहीं स्वैरमपालयत् ॥१४२।। त्रिंशद्वर्षसहस्रायुरथाशीतिकरोच्छ्रयः । सुतनिक्षिप्तसाम्राज्यः पर्यन्ते व्रतमग्रहीत् ॥१४३।। अधीतबहुसूत्रार्थः सुदुष्करतपोरतः । ध्यानधौतो महापद्मः सिद्धोऽभूत् प्राप्तकेवलः ॥१४४।। वृत्तं विष्णुकुमारस्य प्रसङ्गादभ्यधाय्यदः ।
श्रीशान्तिनाथशिष्यस्तु विष्णुर्जेयः परोऽपि हि ॥१४५॥ इति महापद्मचरित्रम् ।।४१॥
एगच्छत्तं पसाहित्ता महिं माणनिसूरणो ।
हरिसेणो मणुस्सिदो पत्तो गइमणुत्तरं ॥४२॥ व्याख्या-एकच्छत्रां महीं प्रसाध्य 'माणनिसूरणो'त्ति दृप्तारात्यहङ्कारविनाशको हरिषेणाख्यो मनुष्येन्द्रः प्राप्तो गतिमनुत्तरामिति । तच्चरित्रसङ्ग्रहवृत्तं यथा
काम्पील्ये क्षितिभृन्महाहरिसुतसत्पष्टिहस्तोच्छ्यो, मेराकुक्षिसरोऽम्बुजं दशसहस्राब्दायुरुग्रप्रभः । चक्री श्रीहरिषेण इत्यभिधया योऽभून्नवाग्रः;
क्षिते गं सोऽपि विमुच्य सुव्रतधरो लेभे परां निर्वृतिम् ॥१॥ इति हरिषेणः ॥४२॥
तथा
अन्निओ रायसहस्सेहिं सुपरिच्चाई दमं चरे ।
जयणामो जिणक्खायं पत्तो गइमणुत्तरं ॥४३॥ व्याख्या-अन्वितो युक्तो राजसहस्त्रैः सुष्ठ शोभनप्रकारेण राज्यादि परित्यजतीति सुपरित्यागी जयनामैकादशश्चक्री जिनाख्यातं दमं चरेत् । ततश्च प्राप्तो गतिमनुत्तरामिति ।
_Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org