SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ ५२८ नायं सामोचितः पापो मूलच्छेद्यस्तु दुस्सहः । इत्यसौ दारुणं कोपं मुनिर्दधदवर्धत ॥ १२६॥ स्फुटयन् वैक्रियं रूपं प्रदेशानथ पुद्गलान् । तिरयन्नूर्ध्वयंश्चापि सोऽभवल्लक्षयोजनः ॥ १२७॥ तदा षट्सुरशैलोऽभूत् तिर्यग्लोकोऽथ पञ्च ते । अकम्पन्त महीकम्पकम्पमानाः कृताद्भुतम् ॥१२८॥ कुल्माषा इव पात्रस्था उत्पतन्ति स्म भूधराः । तत्पाददुर्द्धरोर्ध्वाधोऽभवत् सर्वंसहा स्थिता ॥ १२९॥ तत्फूत्कारमहावातोद्धताः क्षोणिभृतोऽचलन् । क्रमस्तम्भौ स चिक्षेप प्राच्यापाच्यसमुद्रयोः ॥१३०॥ उत्तरज्झयणाणि-२ स पृथु ज्योतिषां चक्रं स्वचारादुदसारयत् । कृतं स्थूलं तृतीयांह्नि नमुचेः शिरसि न्यधात् ॥१३१॥ विष्टरात् पातयित्वैनमक्षिपद् धरणीतले । अहो ! अत्युग्रपापस्य हस्तप्राप्यमिदं फलम् ॥१३२॥ भीतैश्चक्र्यादिभिः पादे गृहीतेऽप्यनुनीतये । करीव कीटिकां लग्नां न विवेद स किञ्चन ॥१३३॥ जगत्क्षोभादवधिना ज्ञात्वा तत् सुरगायनान् । प्राहिणोद् वासवस्तेऽपि तत्कर्णस्था इदं जगुः ॥१३४॥ स्वान्यसन्तापकशुद्धधर्मेन्धनविभावसुः । पन्थाः श्वभ्रगतेः क्रोधो न न्याय्योऽसौ तपस्विनाम् ॥ १३५ ॥ विश्वातिशायिवीर्यस्य कस्ते नमुचिकीटके ? । महारम्भोऽयमेतावान् त्रिजगच्चूरणक्षमः ॥१३६॥ नखच्छेद्ये तृणे वज्रपातः सोऽयं त्वया कृतः । कुरुष्वोपशमं विष्णो ! कृते कार्ये च किं क्रुधा ? ॥१३७॥ प्रक्षिप्तो नमुचिः श्वभ्रे आक्रान्तोर्वी त्रिभिः क्रमैः । चाटितं त्रिजगच्चक्रे क्रुधाऽथो किं करिष्यासि ? ॥ १३८ ॥ चिरादेतानि गेयानि श्रुत्वा कृत्वा जगत्कृपाम् । विष्णुर्निववृते क्रोधादुच्छ्रयाच्च स्ववर्ष्मणः ॥१३९ ।। For Private & Personal Use Only Jain Education International 2010_02 www.jainelibrary.org
SR No.002566
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy