________________
५२७
अष्टादशं संयतीयमध्ययनम्
बभाषे गुरुरानेता विष्णुरित्यथ सोऽव्रजत् । क्षणात् तदन्तिकं वर्षारात्रेऽपि प्राणमच्च तम् ॥११२॥ कश्चिदाकस्मिकोऽस्त्यर्थ इति पृष्टो न्यवेदयत् । शृङ्गनादितमर्थं तमन्यासाध्यं स विष्णवे ॥११३।। ततः करेण तं लात्वा नभसोत्पत्य स क्षणात् । आचार्यान् विष्णुरुद्याने निविलम्बमुपस्थितः ॥११४।। वन्दित्वा तदनुज्ञातः सैकसाधुरगात् सभाम् । नमुचेस्तं विनाऽन्यैः सोऽखिलैः सभ्यैरवन्धत ॥११५।। "उपविश्यासने धर्ममाख्याय भणितं ततः । निस्सङ्गसाधुविद्वेषो महानरककारणम् ॥११६॥ अयं ह्यनुचितः पन्था भूरिक्लेशनिबन्धनम् । सन्तोषिणः सर्वहिता यत् ताप्यन्ते तपोधनाः ॥११७॥ मुनयोऽमी जगन्नम्या नम्यन्ते पुरुषोत्तमैः । विनयः सर्वशास्त्रोक्तो भवेन्निविषयोऽन्यथा ॥११८॥ तुच्छक्षणिकसाम्राज्यलवान्था अधमा नराः । मुनिप्रणामं काङ्क्षन्तः पात्यन्ते विधिना ह्यधः ॥११९॥ कदाशयममुं मुञ्च सुखं तिष्ठन्तु साधवः । किं मत्सरभरग्रस्त: श्वभ्रहेतु विचेष्टसे ? ॥१२०॥ किं न षेऽभ्यनुज्ञाते तेषां प्रावृडवस्थितौ ? । मुनयो हि न वर्षासु विचरन्ति दयापराः" ॥१२१॥ कुकाष्ठादविशिष्टेन प्रोचे नमुचिनेत्यथ । किमत्र पौनरुक्तेन पञ्च तिष्ठन्तु वासरान् ॥१२२॥ ग्रामे वने पुरे शैले स्थाता तत्परतोऽत्र यः । मद्देशे चौरवद् वध्यो भावी स धवलाम्बरः ॥१२३॥ मान्योऽसि भृशमस्माकमाख्याहि श्वेतवाससाम् । साम्राज्यं वर्तते वैप्रं यान्तु भो जीवितार्थिनः ! ॥१२४।। क्रमत्रयमितं स्थानं मया मान्याय तेऽर्पितम् । तद्बहिर्यो मुनिदृष्टः शीर्षच्छेद्यः स मेऽस्त्यरिः ॥१२५।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org