________________
५२६
उत्तरज्झयणाणि-२ अध्यतिष्ठत् ततो राज्यं नमुचिर्न क्वचिच्छुचिः । नृपमान्योऽपि हि खलो विश्वकष्टाय किं नृपः ? ॥९८॥ निर्गत्य नगराद् यागनिमित्तं यागपाटकम् । प्रविश्यादाय तद्दीक्षां गत्वा राजासनेऽविशत् ॥९९।। अन्यत्र श्वेतभिक्षुभ्यः सर्वाः प्रकृतयस्तदा । उपायनकरा नेमुरपि पाखण्डिलिङ्गिनः ॥१००।। तदेव च्छिद्रमुद्भाव्य प्रकाश्य च रुषाऽरुणः । तानेव सुव्रताचार्यान् भटैराजूहवन्निजैः ॥१०१।। प्रालपच्च यदा यः स्याद् यादृशस्तादृशो नृपः । मान्य एव स सर्वेषां लिङ्गिनां तु विशेषतः ॥१०२॥ पार्थिवात् कः परो नाथो निर्बाथानां हि लिङ्गिनाम् ? । तपोवनान्यपि मापै रक्षितानि भवन्ति हि ॥१०३।। ममाकिञ्चित्करा यूयं स्तब्धा अथ च निन्दकाः । मदीयराज्ये न स्थेयं सर्वथाऽतो निरङ्कशैः ॥१०४।। यः स्थितः स तु मे वध्यो नाघं मे जैनहत्यया । बभाषेऽथैष गुरुणा नमुचिर्मधुरस्वरम् ॥१०५।। न कल्प इति नायाता वयं नास्मासु मत्सरः । समभावा हि मुनयस्तिष्ठन्ति निजकर्मसु ॥१०६॥ भृशं शान्तैरशान्तोऽसौ वचनैः प्रत्यभाषत । दत्ताः सप्त दिना यात तदूर्ध्वं च स्थितौ वधः ॥१०७।। श्रुत्वेति साधवः प्रत्यायाता निजतपोवनम् । काऽत्र प्रतिक्रिया कार्येत्यवदन् गुरवोऽपि तान् ॥१०८।। मुनिनैकेन तत्रोचेऽधुना तिष्ठति मन्दरे । षष्ट्यब्दशतसंसिद्धतपा विष्णुमुनीश्वरः ॥१०९॥ महापद्माग्रज इति तगिरैष प्रशाम्यति । चारणश्रमणः कोऽपि तदाह्वानाय गच्छतु ॥११०॥ कः कोऽस्ति चारण इति व्यक्तावेकोऽब्रवीन्मुनिः । शक्तोऽहं गन्तुमागन्तुमीश्वरो नास्मि मेरुतः ॥१११॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org