________________
५२५
अष्टादशं संयतीयमध्ययनम्
प्राह विष्णुकुमारोऽपि तात ! त्वत्तोऽप्यहं भवात् । भृशमेव विरक्तोऽस्मि तन्ममावरजेऽस्तु तत् ॥८४॥ इत्युदीर्य महापद्मो दोर्ध्यामाकृष्य विष्टरे । अभ्यषेचि निवेश्याशु ताभ्यां पार्थिवसम्पदि ॥८५॥ राजा विष्णुकुमारचोपसुव्रतगुरु व्रतम् । जगृहाते महापद्मश्चक्र्यभूदुग्रशासनः ॥८६॥ तौ स्यन्दनावियत्कालं नृपादेशात् तथा स्थितौ । पुरेऽथाभ्रामयच्चक्री प्रथमं रथमार्हतम् ॥८७॥ जिनप्रवचनौन्नत्यमकार्षीत् किञ्चिदद्भुतम् । राज्ञि जैनेऽभवज्जैनधर्मवान् प्रायशो जनः ॥८८।। कोटिशो जिनचैत्यान्यकारयद् भरतेऽखिले । जनान् शक्त्युपदेशाद्यैस्तत्पूजायामवर्तयत् ॥८९।। निष्कलङ्कव्रतधरो भेजे पद्मोत्तरः शिवम् । लब्धीविष्णुकुमारस्तु विचित्रास्तपसाऽर्जयत् ॥९०।। मेरुवत् तुङ्गदेहः स्यात् पक्षीव गगने व्रजेत् । कामरूपी भवेन्नानारूपैः पूरयते महीम् ॥९१॥ इत्यनन्ततपो-वीर्ययुक्तोऽपि क्षितिभृद्दरीम् । प्रविश्य प्रायशो ध्यानलीनोऽस्थात् स निरन्तरम् ।।१२।। इतस्ते सुव्रताचार्या हस्तिनागपुरे पुनः । उद्याने समवासाघुरज्ञासीन्नमुचिश्च तत् ॥९३।। पूर्ववैरं स्मरन् व्यज्ञपयच्छीचक्रवर्तिनम् । कोशीकृतवरपदे साम्राज्यं देहि मे निजम् ॥१४॥ वैरिनिर्यातनं मित्रपालनं पोष्यपोषणम् । स्वैरं धनव्ययं चान्यः कः कर्तु भूपतेरलम् ? ॥९५॥ अस्ति कश्चिन्महायागो महाराजोचितः प्रभो ! । वेदप्रोक्तेन विधिना तच्चिकीर्षां प्रपूरय ॥९६।। स्वप्रतिजैकनिष्णातो लीलया प्रतिपद्य तत् । प्रविश्यान्तःपुरं चक्री भोगाद्वैतमसाधयत् ॥९७॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org