SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ द्वितीयं परीषहाध्ययनम् क्षुल्लेनोचे ज्वलद् ग्रामं विशन् भस्मीभविष्यसि । आत्मानं किं न जानासीत्यभिधाय सुरोऽभ्यधात् ॥५६॥ क्रोधादिभिः प्रज्वलन्तं गृहवासं जिघृक्षसि । परित्यज्य व्रताऽनूपं तत् किं मूढ ! न लज्जसे ? ॥१७॥ उत्पथेनाटवीं यान्तं सुरं किं गच्छसीत्यवक् । त्यक्त्वा मोक्षपथं क्लेशं किं प्रवेष्टेत्यवक् सुरः ॥१८॥ यक्षं यक्षगृहे पूजाऽनन्तरं वीप्सया ह्यधः । पतन्तं वीक्ष्य सोत्यासं क्षुल्ल आख्यत् सुरं प्रति ॥५९॥ अहो ! अधन्यता ह्यस्य पूजितो यदधः पतेत् । सुरोऽवक् त्वमधन्योऽसि यश्चारित्रे निवेशितः ॥६०॥ उत्प्रव्रज्य गृहस्थत्वे स्थातुमिच्छसि दुःखदे । सम्भ्रान्तः क्षुल्लकोऽथाह कोऽसि त्वं मम लग्नकः ? ॥१॥ तेनापि दर्शितं मूकरूपं पूर्वभवोऽकथि । कः प्रत्यय इति प्रोक्ते स्फुटरूपः सुरोऽवदत् ।।६२।। पूर्वं त्वयोक्तमासीद् मे मूकस्य घुसदो भवे । न प्रबुध्येय चेद् यत्नैर्मी वैताढ्यं ततो नयेः ॥६३।। सिद्धायतनकूटेऽस्ति नामाङ्क कुण्डलद्वयम् । तद्दर्शनाद् भवस्मृत्या मे प्रबोधो भविष्यति ॥६४॥ तत्रेत्युदीर्य निन्येऽसौ सुरेणेक्षितवांश्च तत् ।। जातिस्मरो व्रतस्थैर्यं भेजेऽमुत्र च सद्गतिम् ॥६५।। तस्य पूर्वं रतिर्नासीद् व्रते तदनु साऽभवत् । निष्कलङ्कतया धीरो व्रतं पालितवान् यतः ॥६६|| इत्यरतिपरीषहे सप्तमे अपराजितयतिकथा ॥१५|| संयमेऽरतस्य स्त्रीष्वप्यभिलाषः स्यादिति तत्परीषहमाह संगो एस मणूसाणं जाओ लोगंमि इथिओ । जस्स एआ परिन्नाया सुकडं तस्स सामण्णं ॥१६॥ व्याख्या–सङ्ग एष वक्ष्यमाणो मक्षिकाणामिव श्लेष्मा मनुष्याणां याः काश्चन Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002565
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages500
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy