________________
द्वितीयं परीषहाध्ययनम्
"तोवस ! किमिणा मूयच्चएण पडिवज्ज जाणिउं धम्मं । मरिऊण सूयरोरग जाओ पुत्तस्स पुत्तो त्ति" ॥२९।। गुरोरनुज्ञया पद्ये पठितेऽस्मिन् स विस्मितः । कथं ज्ञातमद इति नत्वाऽपृच्छद् रहो मुनीन् ॥३०॥ विदुः श्रीगुरवस्ताभ्यामित्युक्ते स वनेऽगमत् । प्रणम्य गुरुमेतस्मात् तत्त्वं श्रुत्वास्तिकोऽभवत् ॥३१।। तस्याशोकदत्त इति नामासीत् पितृभिः कृतम् । लोकैः कृतं मूक इति पश्चादजनि विश्रुतम् ॥३२॥ इतश्च ब्राह्मणसुरो नत्वाऽर्हन्तं विदेहगम् । पप्रच्छ सुलभा बोधि: प्रभो ! प्रेत्योत मेऽन्यथा ? ॥३३।। दुर्लभेति जिनो व्याख्यद् भविता कुत्र जन्मे मे ? । इति पृष्टे जिनेनोक्तं मूकभ्राता भविष्यसि ॥३४॥ लाता स तु व्रतं बुद्धोऽथोपमूकमगात् सुरः । दत्त्वा रत्नादि तं प्राहोत्पत्स्येऽहं त्वत्प्रसूदरे ॥३५॥ अकाले दोहदस्तस्या भाव्यामेषु ततस्त्वया । वर्णा लेख्याः पुरस्तस्याश्चेद् दातासि ममाङ्गजम् ॥३६।। दोहदं पूरयाम्याशु तया तस्मिन् प्रतिश्रुते । मया सदाफलोऽस्त्याम्रो रोपितो यमुनातटे ॥३७॥ दद्यास्तानि ततो नीत्वा जातमात्रमथाङ्गजम् । मामादाय तथा कुर्या यथा स्यां प्रतिबोधवान् ॥३८॥ इति स्वीकार्य देवोऽगादुत्पेदेऽथ च्युतः क्रमात् । तथैव दोहदोऽपूरि जातमात्रमथागृहीत् ॥३९॥ सोऽनामयद् गुरून् बाल्याद् न मनागपि सोऽनमत् । धर्मस्थाने रतिर्नास्य रुदन्नेष ततोऽनशत् ॥४०॥ वीप्सयैवंविधं कुर्वन् मूकः श्रान्तो विरागवान् ।
व्रतमादाय देवेषूदपद्यत महाद्युतिः ॥४१॥ १. तापस ! किमनेन मूकत्वेन प्रतिपद्यस्व ज्ञात्वा धर्मम् ।
मृत्वा शूकर उरगो जातः पुत्रस्य पुत्र इति ॥२९।।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org