________________
उत्तरज्झयणाणि-१ गुरवः प्रोचिरे विद्यो न वै प्राघूर्णकः परम् ।। साधुरेक: समायातः प्रायस्तत्कृत्यमस्त्यदः ॥१६।। सोऽपि स्वाध्याययन् कूणे नतो राज्ञोपलक्षितः । हीणो न्यग्वदनो राजोपालब्धश्चेति साधुना ॥१७॥ किं राज्येनामुना यत्र न शास्यन्ते सुता अपि ? । पादलग्नो नरेन्द्रस्तु क्षमस्व श्रमणेत्यवक् ॥१८॥ व्रतं यद्याददीयातां ध्रुवं मोक्षस्तदैतयोः । नान्यथेत्येष भूपालं साधिक्षेपमुदाहरत् ।।१९।। पृष्टौ राज-पुरोधाभ्यामेतौ स्वीचक्रतुश्च तौ । जन्तुर्मृत्युभयोद्धान्तः किं न स्वीकुरुतेतमाम् ? ॥२०॥ कृतलोचौ ततो मुक्तावभूतां स्वीकृतव्रतौ । तत्र निःशङ्कितो राजपुत्रोऽभूद् व्रतपालने ।।२१।। पुरोहितसुतस्योर्वीमपि पालयत: क्रियाम् । अभूज्जात्यवलेपश्च मत्सरश्च महामुनौ ।।२२।। तौ द्वावप्युपपेदानौ देवौ चारित्रतो दिवि ।
शक्ति नव्रतस्याहो ! द्यां यत् तादृशमापयत् ॥२३।। इतश्च
कौशाम्ब्यां तापसः श्रेष्ठी मिथ्यात्वबहुलाशयः । मृत्वा विट्सूकरो जज्ञे स्वगृहे जातिमस्मरत् ॥२४॥ तदैवाविरतैः पुत्रैर्मारितोऽहिर्गृहेऽभवत् ।। सोऽप्यमारि सुतैर्जातिस्मरो डङ्कभयाद् द्रुतम् ॥२५।। सुतस्याथ सुतो जातः स्मृत्वा जातिमचिन्तयत् । स्नुषामम्बां सुतं तातं व्याहरामि कथं स्फुटम् ? ॥२६।। ध्यात्वेत्यादत्त मूकत्वमप्युपायशते कृते । पितृभिर्न बभाषेऽसावितस्तत्र वने गुरुः ॥२७॥ विजहार चतुर्ज्ञानी बोधं विज्ञाय तस्य सः । प्राहिणोत् संयतद्वन्द्वं तच्च मूकमदोऽवदत् ।।२८||
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org