SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ द्वितीयं परीषहाध्ययनम् राधाचार्यान्तिके सोऽपि तारुण्ये व्रतमग्रहीत् । तेनान्यदा सहाचार्या विजहुस्तगरापुरीम् ॥२॥ तच्छिष्या आर्यराधाख्याः सन्त्यवन्त्यां बहुश्रुताः । तच्छिष्यौ तगरां प्राप्तावविघ्नं पृष्टवान् गुरुः ||३|| राज्ञः पुरोहितस्यापि सुतौ तत्रोपसर्गदौ । इत्याचष्टां ततो दध्यौ महात्मा जितशत्रुजः || ४ | मा संसारं भ्रमेत् पापाद् भ्रातृजो मे नृपाङ्गजः । इत्यापृच्छ्य गुरूंस्तूर्णं सैकोऽवन्तीं ययावसौ ॥५॥ विहितोचितकर्तव्यो भिक्षायै प्रस्थितः क्षणे । तिष्ठ प्राघूर्णकत्वेनेत्युक्तोऽप्यस्थाद् न किन्त्ववक् ॥६॥ यदर्थमागां तत्कार्यमकृत्वा मे कुतो रतिः ? | तद् दर्शयत राट्सौधे प्रत्यनीकद्वयास्पदम् ॥७॥ प्रेषितः क्षुल्लकस्तेन दर्शिते तत्र सोऽविशत् । जनस्तं वीक्ष्य साशङ्कमूचे भोः ! लघु निःसर ॥८॥ मा ब्रूहीतरथाऽऽगत्य कुमारौ पीडयिष्यतः । दृढः सोऽपि महाशब्दं धर्मलाभितवांस्ततः ॥ ९ ॥ श्रुत्वा तावागतौ साधुः प्राप्तः क्रीडार्थमेष नौ । इत्याहतुरिदं पूज्या ! वित्थ नृत्यमुवाच सः ॥ १०॥ वाद्यं वादयतां नृत्यं विना वाद्यं हि कीदृशम् ? । हास्यात् किञ्चित् प्रवृत्तौ तौ वाद्यवादनकर्मणि ॥११॥ अजानन्तावथ प्रोक्तौ रे ! वां किञ्चिद् न बुध्यथः । रुष्टौ तावुद्यतौ हन्तुमसौ च दृढमग्रहीत् ॥१२॥ बुद्धिविज्ञानसर्वस्वपात्रं मर्मण्यचम्पयत् । कुट्टयित्वा भृशं पूर्वं तदाक्रन्दमिलज्जनम् ॥१३॥ ममार्हतावपततां भुव्येतौ सर्वतोऽक्षम । निरुद्धवचनौ किन्तु निरीक्षणकरौ मिथः ॥ १४॥ गतोऽपराजितः साधुः श्रुतव्यतिकरो नृपः । पुरोधाश्च समागत्य सान्त्वयामासतुर्गुरून् ॥१५॥ For Private & Personal Use Only Jain Education International 2010_02 ६१ www.jainelibrary.org
SR No.002565
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages500
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy