________________
६०
उत्तरज्झयणाणि-१ क्रमाद् मृतकमुत्सृज्य प्रत्यायात् सूरयेऽभणत् । उपसर्गोऽभवत् सत्यं सेहे विघ्नभयात् तव ॥४९।। गृहाण शाटकमिति प्रोक्ते किमथ तेन मे ? । यदर्थं शाटककाङ्क्षास्तत् सर्वं दृष्टमेव यत् ॥५०॥ तच्चोलपट्ट एवास्त्वित्येवं सर्वक्रियौजसा ।
न तु पूर्वं परं पश्चात् सेहे तेन परीषहः ॥५१।। इति षष्ठपरीषहे सोमदेवविप्रर्षिकथा ॥१३॥ अचेलस्य शीतादिभिररतिरपि स्यादिति तत्परीषहमाह
गामाणुगामं रीयंतं अणगारं अकिंचणं ।
अरई अणुप्पविसे तं तितिक्खे परीसहं ॥१४॥ व्याख्या-ग्रामो जिगमिषितोऽनुग्रामश्च तन्मार्गानुकूलो ग्रामानुग्रामस्तं नगराधुपलक्षणं 'रीयंत विहरन्तमनगारं मुनिमकिञ्चनं निष्परिग्रहमरतिः संयमाधृतिरनुप्रविशेद् मनसि लब्धास्पदा भवेत् तमरतिरूपं तितिक्षेत सहेत परीषहं स इति शेषः ॥१४॥ तत्सहनोपायमाह
अरई पिट्ठओ किच्चा विरओ आयरक्खिए ।
धम्मारामे निरारंभे उवसंते मुणी चरे ॥१५॥ व्याख्या-अरतिं पूर्वोक्तां पृष्ठतः कृत्वा धर्मविघ्नहेतुरिति तिरस्कृत्य विरतो हिंसादिभ्य आत्मा रक्षितो दुर्गतिहेतोरपध्यानादेर्येन स तथा । धर्मे श्रुतधर्मादौ आङ् अभिव्याप्त्या रमते इति धर्मारामो । निरारम्भ इत्यसत्क्रियाभ्यो निवृत्तः । उपशान्तः क्रोधाद्युपशमवान् मुनिश्चरेत् ।
"ने मे चिरं दुक्खमिणं भविस्सई असासया भोगपिवास जंतुणो ।
न चे सरीरेण इमेण वेसई अवेसई जीवियपज्जवेण मे" ॥१॥ इति परिभावयन् संयमाध्वनि यायाद् न पुनरुत्पन्नाधृतिरप्यवधावनानुप्रेक्षी स्यादिति भावः । एवं चारतिपरीषहः सोढव्योऽपराजितयतिवत् । तथाहि
पुरेऽचलपुरे राजा जितशत्रुरभूद् बली ।
तस्यापराजितः पुत्रो युवराजोऽभवत् सुधीः ॥१॥ १. न मे चिरं दुःखमिदं भविष्यति, अशाश्वता भोगपिपासा जन्तोः ।
न चेच्छरीरेणानेनापेष्यति, अपेष्यति जीवितपर्यवेण मे ॥१॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org