________________
उत्तरज्झयणाणि-१ मयि रागी यतोऽत्यन्तं तस्मादन्यत्र गम्यते । तथाऽकार्षीद् गुरुः पूर्वा शिष्यनिस्फेटिकाऽभवत् ॥२१|| यत् तत्राभूत् तदधीतमधिकाधिजिगीषया । श्रीवज्रस्वामिनः पार्वं गच्छन्नुज्जयिनीं गतः ॥२२॥ भद्रगुप्तगुरोस्तत्र शुद्धसंलेखनावतः । ज्ञानी निर्यामकीभूतः पर्यन्तेऽभाणि तेन सः ॥२३॥ असि प्रवचनाधारो वज्रेण गुरुणा ततः । रात्रौ नोपाश्रये स्थेयं पृथग् वेश्मस्थितः पठेः ॥२४।। वत्स ! श्रुतजलाम्भोधे ! मृत्युस्तेन सहान्यथा । तत् स्वीकृत्य दिवं प्राप्ते तस्मिन् वज्रान्तिकं ययौ ॥२५।। आगन्तुकेन निष्पीतो मम क्षीरपतद्ग्रहः । अवशिष्टं स्थितं किञ्चित् स्वप्नमित्यैक्षत प्रभुः ॥२६।। अद्य प्रतीच्छकः कश्चिदागन्ता सोऽपि मच्छृतम् । किञ्चिदूनं ग्रहीतेति स स्वप्नं तं व्यचारयत् ।।२७।। रक्षितेऽथागते तत्रर्षयस्तत् तथ्यतां विदुः । श्रीवज्रस्वामिनोऽप्यूचुः कुतो वत्स ! समागमः ? ॥२८॥ गुरोस्तोसलिपुत्रस्यान्तिकादस्म्यार्यरक्षितः । इत्युक्ते तेन गुरवः कुत्रोपकरणानि ते ? ।।२९।। इत्यूचुः सोऽप्यवग् भिन्नोपाश्रयेऽस्मि स्थितः प्रभो ! । अनिच्छन्नपि तद् भद्रगुप्ताचार्यस्य शासनात् ॥३०॥ तथैवायतिसौन्दर्यं ज्ञात्वैतेऽपि तमादिशन् । अधीष्वैवमपि प्रावर्तताध्येतुमसौ ततः ॥३१।। अचिरान्नव पूर्वाणि समाप्याग्र्यमुपाक्रमत् । सूक्ष्मतद्यविकान्येष चतुर्विंशतिमध्यगात् ॥३२॥ श्रुततर्षातिरेकेण पितृनर्तिपरानपि । क्रियासमभिहारेणाकारितो नाप्यवन्दयत् ॥३३।। आगादाकारणायाथास्यानुजः फल्गुरक्षितः । प्रव्राजयागत्य निजं कुटुम्बमिति सोऽभ्यधात् ॥३४।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org