SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ ५६ उत्तरज्झयणाणि-१ भविष्यामि । परिजीर्णवस्त्रं मां दृष्ट्वा कश्चिद् भव्यानि दास्यतीति भिक्षुर्न चिन्तयेत् । न जीर्णचेलोऽन्यचेलालाभ-लाभसम्भावनया दैन्यं प्रमोदं वा गच्छेदिति भावः ।।१२।। तथा एगया अचेलए होइ सचेले आवि एगया । एयं धम्महियं नच्चा नाणी नो परिदेवए ॥१३॥ व्याख्या-एकदा जिनकल्पावस्थायां सर्वथा चेलाभावेन जीर्णादिवस्त्रतया वा अचेलको भवति । सचेलश्चैकदा स्थविरकल्पावस्थायाम् । तत एतदित्यवस्थौचित्येनाचेलत्वं सचेलत्वं च धर्महितं साधुधर्मोपकारकं ज्ञात्वा अवबुध्य तत्राचेलकत्वस्य धर्महितत्वमल्पप्रत्युपेक्षणादिभिः यथोक्तम्-"पंचेहिं ठाणेहिं पुरिम-पच्छिमाणं अरहंताणं भगवंताणं अचेलए पसत्थे भवइ । तं जहा अप्या पडिलेहा १ वेसासिए रूवे २ तवे अणुमए ३ लाघवे पसत्थे ४ विउले इंदियनिग्गहे ५ य" त्ति ।। सचेलत्वस्य तु धर्महितत्वमग्न्याद्यारम्भनिवारकत्वेन संयमफलत्वात् । ततश्च ज्ञानी यथोक्तविवेकवान् नो परिदेवयेदचेलस्य सतः शीतादिपीडितस्य किं मे शरणं भविष्यतीति न दैन्यमालम्बेत इति । एवमचेलपरीषहः सह्यः सोमदेवविप्रर्षिवत् । तथाहि अभूद् दशपुरे विप्रो रक्षितः सोमदेवसूः । सोमदेवाकुक्षिशुक्तिमौक्तिकं सुभगः सुधीः ॥१॥ या विद्याऽभूत् पितुः पार्वे तां सर्वामप्यधीयत । गतः पाटलिपुत्रेऽसौ तामध्येतुं विशेषतः ॥२॥ श्रुति-स्मृती पुराणानि लक्षणान्वीषिकीरपि । पठित्वा वेश्म लघ्वागाद् विद्याः सर्वाः परा अपि ॥३॥ तत्कुलं भूपतेर्मान्यमिति भूपपुरस्कृतः । बाह्योपस्थानशालायां तस्थावर्थप्रतीच्छकः ॥४॥ स्वजनान्यजनाप्ताभिस्तदा प्राभृतिभिर्म्यहम् ।। अपूरि तस्य विद्या हि स्वधीताः कामधेनवः ॥५।। नतस्तातो मयाऽद्यपि न प्रसूरभिवादिता । प्रस्थिते मयि या घस्रान् गणयन्ती स्थिताऽन्वहम् ।।६।। १. पञ्चभिः स्थानैः पूर्व-पश्चिमयोरर्हतोभगवतोरचेलकत्वं प्रशस्तं भवति । तद् यथा-अल्पा प्रतिलेखना १, वैश्वासिकं रूपम् २, तपोऽनुमतम् ३, लाघवं प्रशस्तम् ४, विपुल इन्द्रियनिग्रहः ५॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002565
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages500
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy