________________
द्वितीयं परीषहाध्ययनम्
स एकाकितया ज्ञानी दृढसत्त्वतया चरन् । क्वचिच्छरद्यधोभूमौ निशि व्युत्सर्गमादधे ॥२॥ तत्र रात्रौ वने दंशास्तं तीव्रा अदशंस्तराम् । पीडितोऽपि प्रममार्ज नैतानिति विचिन्तयन् ॥३॥ किमात्मन् ! दुःखमेतत् ते वराकैः मशकैः कृतम् ? | यदनन्तगुणं श्वभ्रगतावसहथा इदम् ||४||
तथाहि
तथा-
शृगाल- वृकरूपैश्च विचित्राकारधारकैः । आक्षेपत्रोटितस्नायु भक्ष्यन्ते रुधिरोक्षिताः ॥ ५ ॥ श्वरूपैः कोलरूपैश्च नारकालयविह्वलाः । खण्डशः प्रविलुप्यन्ते क्रन्दतः शबलादिभिः ॥ ६ ॥ काक- गृध्रादिरूपैश्च लोहतुण्डैर्बलान्वितैः । विनिकृष्टाक्षि- जिह्वा न्त्रा विचेष्टन्ते महीतले ॥७॥
प्राणोपक्रमणैर्घोरैर्दु:खैरेवंविधैरपि ।
आयुष्यक्ष पितेनैव म्रियन्ते दुःखभाजिनः ॥८॥
469
'अन्नं इमं सरीरं अन्नो जीवो त्ति एव कयबुद्धी । दुक्खकरं जीव ! तुमं छिंद ममत्तं सरीरंमि" ॥ ९ ॥ सहमान इति ध्यायन् वेदनां पीतशोणितः । दंशैः समाधिना मृत्वा सुरोऽभूदप्सरः प्रियः ॥१०॥ इति पञ्चमपरीषहे सुमनोभद्रकथा ॥ ११ ॥ दंशादिपीडितश्चेलाद्यन्वेषणपरः स्यादित्यचेलपरीषहमाह
परिजुन्नेहिं वत्थेहिं भोक्खामि त्ति अचेलए । अदुवा सचेलए होक्खं इइ भिक्खु न चिंतए ॥ १२ ॥
व्याख्या - परिजीर्णैर्वस्त्रैः कल्पादिभिर्भविष्याम्यचेलकश्चेलविकलोऽल्पदिनभावित्वादेषामित्येतद् भिक्षुर्न चिन्तयेदिति सम्बन्धः । अथवा सचेलकः सवस्त्रो 'होक्खं ति'
१. अन्यदिदं शरीरमन्यो जीव इत्येवं कृतबुद्धिः । दुःखकरं जीव ! त्वं छिन्धि ममत्वं शरीरे ॥१॥
Jain Education International 2010_02
५५
For Private & Personal Use Only
www.jainelibrary.org