________________
५४
न शक्तो व्रतमाधातुं प्रपत्स्येऽनशनं ततः । किमु स्खलितशीलस्य जीवितेन ममानिशम् ? ॥१८॥
यदुक्तम्——
"वरं प्रवेष्टुं ज्वलितं हुताशनं न चापि भग्नं चिरसञ्चितं व्रतम् । वरं हि मृत्युः सुविशुद्धकर्मणो न चापि शीलस्खलितस्य जीवितम् ॥१९॥
भवत्वेवमपीत्युक्ते तया तप्त शिलातले । कृत्वाऽनशनमेषोऽपि ग्रीष्मे सुस्थोऽगमद् दिवम् ||२०||
नवनीतमिवोष्णेऽसौ यद् विलीनः शिलातले ।
पूर्वं न सेहे तेनौष्णः पश्चात् सेहे परीषहः ||२१||
उत्तरज्झयणाणि - १
इति चतुर्थपरीषहे अरहन्नकमुनिका ||९||
उष्णं हि ग्रामे तदनन्तरं वर्षा, तत्र दंशादयः स्युरिति तत्परीषहमाह - पुट्ठो अ दंस-मसएहिं समरेव महामुनी ।
नागो संगामसीसे वा सूरो अभिहणे परं ॥ १०॥
व्याख्या—स्पृष्टश्चाभिद्रुतो दंश - मशकैरुपलक्षणत्वाद् यूकादिभिः । 'समरेव त्ति' रेफस्य प्राकृतशैल्याऽलाक्षणिकत्वात् सम एव स्पृष्टास्पृष्टावस्थयोः तुल्य एव महामुनिः । नाग इव हस्तीव वाशब्दस्येवार्थस्यात्र सम्बन्धात् सङ्ग्रामशिरसि रणमस्तके शूरः पराक्रमवान्, यद्वा अन्तर्भावित इवार्थत्वाद् वाशब्दस्य च गम्यमानत्वात् शूर इव सुभट इवाभिहन्याद् जयेत् परं शत्रुमयं भावो - यथा करी शूरो वा शरैस्तुद्यमानोऽपि तदगणनया रणे शत्रुं जयेदेवं साधुरपि दंशादिभिरभिद्रूयमाणः क्रोधादिकं जयेत् ॥१०॥
किञ्च—
न संतसे न वारिज्जा मणं पि न पओसए ।
उवे न हणे पाणे भुंजंते मंस - सोणियं ॥ ११ ॥
व्याख्या- - न संत्रसेन्नोद्विजेत 'दंशादिभ्यः' इति गम्यम् । न निवारयेन्न निषेधयेद् दंशादीनेव तुदतो मा भूदन्तराय इति । मनोऽप्यास्तां वचो न प्रदूषयेत् प्रदुष्टं कुर्यात्, किन्तूपेक्षेतौदासीन्येन पश्येदत एव न हन्यात् प्राणान् प्राणिनो भुञ्जानानाहारयतो मांसशोणितम् । इत्येवं दंशादिपरीषहः, स च सुमनोभद्रमुनिवत् सोढव्यः । यथा—
जितारेरस्ति चम्पायां सुमनोभद्रकः सुतः । धर्मघोषगुरोः पार्श्वे युवराजो व्रतं ललौ ॥१॥
For Private & Personal Use Only
Jain Education International 2010_02
www.jainelibrary.org