SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ द्वितीयं परीषहाध्ययनम् तदप्रीतिकरं शेषसाधूनां तरुणः क्षमः । किमेष पोष्यत इति दाक्षिण्यात् किन्तु नावदन् ॥४॥ मृतेऽथ क्षपके क्षुल्लः कुर्वन्नधृतिमुल्बणाम् । कियद्दिनानि संस्थाप्य भिक्षार्थमवतारितः ॥५॥ सुकोमल पुग्रीष्मे आ बाल्यादपि लालितः । आतपेनातिसन्तप्तस्तृषा भृशमदूयत ॥६॥ विश्रमन्तं क्वचिद् भित्तिदेशे प्रोषितभर्तृका । काचिन्निरीक्ष्य तं दास्याऽऽहूय च प्रत्यलाभयत् ॥७॥ पर्याप्तं मोदकान् दत्त्वा ददृशे स्निग्धया दृशा । ऊचे चार्यालमेतेन तपसा कष्टवेधसा ॥८॥ स्वैरं मां भुङ्क्ष्व भावानुरक्तां तस्य ह्यदः फलम् । भवितव्यतया सोऽपि भग्नो मेनेऽथ तद्वचः ||९|| स तत्र बुभुजे भोगान् बहुशोऽथ गवेषितः । साधुभिर्न परं लेभे प्रविष्टो विजने यतः ॥ १० ॥ माताऽथ तद्वियोगेन ग्रहिला विह्वलान्तरा । बभ्राम नगरे डिम्भवृता हास्य- कृपास्पदम् ॥११॥ यं यं पश्यति तं सर्वं मुग्धा ज्ञात्वाऽरहन्नकम् । मोदमाना रुदन्ती च दृष्टा तेनान्यदा क्वचित् ॥१२॥ गवाक्षस्थोऽथ तां दृष्ट्वा दध्यौ मां धिग् दुराशयम् । अकार्यकारिणा येन पातिता व्यसने प्रसूः ॥ १३॥ व्रतलोपान्निजश्चात्मा हा ! मया मलिनीकृतः । अथोत्तीर्य प्रसूपादेऽपतद् गत्वाऽश्रुलोचनः ॥ १४॥ सगद्गदमभाणीच्च सोऽहमम्बाऽरहन्नकः । त्वदुद्वेगवनाङ्करो घुणस्त्वत्कुक्षिदारुणि ॥ १५ ॥ तं वीक्ष्यैषाऽपि सुस्थत्वं गताऽपृच्छदथाङ्गजम् । क्वासीः सोऽपि यथावृत्तमाख्यत् साऽथैवमूचुषी ||१६|| भज वत्स ! व्रतं भूयोऽन्यथा क्लेशं सहिष्यसे । बहुधा त्वं व्रतभ्रष्टस्तच्छ्रुत्वा सोऽभ्यधादिति ॥१७॥ For Private & Personal Use Only Jain Education International 2010_02 ५३ www.jainelibrary.org
SR No.002565
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages500
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy