________________
द्वितीयं परीषहाध्ययनम्
ये प्रेम्णा ददते शिक्षा सावद्यां मुग्धमानसाः । परिणामाहिता वन्द्याः कथं ते तत्त्ववेदिनाम् ? ॥१४॥ इत्युदित्वा दिवं सोऽगात् स्वं निन्दत् क्षपकोऽपि हि ।
शुद्धो भेजे व्रतं क्षुल्ल इव सह्येतरैस्तृषा ।।१५।। इति द्वितीयपरीषहे धनशर्मयतिकथा ॥५।। क्षुत्पिपासापीडाकृशस्य शीतबाधाऽपि स्यादतस्तत्परीषहमाह
चरंतं विरयं लूहं सीतं फुसइ एगया ।
नाइवेलं मुणी गच्छे सुच्चा णं जिणसासणं ॥६॥ व्याख्या-चरन्तं ग्रामानुग्रामे मुक्तिपथे वा व्रजन्तं, विरतमग्न्यारम्भादेनिवृत्तं, 'लूहं ति' रूक्षं स्निग्धभोजनाभ्यङ्गादित्यागेन शीतं हिमं स्पृशत्यभिद्रवत्येकदा शीतकालादौ ततो नातिवेलं वेलां स्वाध्यायादिसमयरूपामतिक्रम्य शीतेनाभिहतोऽहमिति मुनिर्न गच्छेत् स्थानान्तरमभिसर्पत, श्रुत्वा जिनशासनमन्यो जीवोऽन्यश्च देहस्तीव्रतराश्च नरकादिषु शीतवेदना जीवैरनुभूतपूर्वा इत्याद्यागममिति ॥६॥ अन्यच्च
न मे निवारणं अस्थि छवित्ताणं न विज्जए ।
अहं तु अग्गि सेवामि इइ भिक्खू न चिंतए ॥७॥ व्याख्यान 'मे' मम निवारणं शीत-वातादेः सौधाद्यस्ति । छवित्राणं त्वक्त्राणं वस्त्र-कम्बलादि न विद्यते येषां निवारणं छवित्राणं वा वर्तते ते मा सेवन्तामहं तु तद्रहितोऽग्नि सेवे इति भिक्षुर्न चिन्तयेद् ध्यायेत् । चिन्तानिषेधेनासेवनं दूरापास्तमेवं शीतपरीषहः सोढः स्यात् साधुचतुष्टयवत् । तथाहि
चत्वारोऽपि पुरे राजगृहे वरवयस्यकाः । भद्रबाहोर्वचः श्रुत्वा हर्षादाददिरे व्रतम् ॥१॥ लात्वैकाकिविहारित्वं दृढसत्त्वा बहुश्रुताः । शिशिर? पुना राजगृहं प्राप्ता विहारतः ॥२॥ तत्र स्फीतेन शीतेन काष्ठीयत्यखिले जने । दिवाकराग्नि-प्रावारैः कथञ्चिदपि जीवति ।।३।। ते पौरुष्यां तृतीयायामात्तभैक्षा यथाविधि । निवृत्त्याहार्य वैभारमनुशैलं प्रतस्थिरे ॥४॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org