SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ उत्तरज्झयणाणि-१ ग्रीष्मेऽन्यदा तृषाऽऽक्रान्तो धनशर्मा पथि क्वचित् । नदी. विलोक्य क्षपकस्तं स्माह पिब जीवनम् ॥२॥ साधवः पुरतो यान्ति ज्ञास्यते कोऽपि नह्यदः । निस्तरापदमाधाता पश्चाच्छुद्धिं निजात्मनः ॥३॥ तदनिच्छति तस्मिंस्तु विभिद्य पुरतोऽगमत् । शङ्कया मम नो पातेत्यभिप्रेत्य ततः पिता ॥४॥ सोऽप्यासाद्य नदीमध्यं दध्यौ प्राणास्तु गत्वराः । तत्कृते व्रतमालिन्यं कः कुर्यात् प्राणिहिंसया ? ॥५।। एकस्मिन्नौदके बिन्दौ ये जीवाः कथिता जिनैः । पारापतप्रमाणास्तु जम्बूद्वीपे न मान्ति ते ॥६॥ जले वनस्पतिर्नूनं प्राय: सर्वत्र दृश्यते । दृश्यते न हि यत्रैषा तत्र सूक्ष्मा प्रतीयताम् ॥७॥ उक्तञ्चानुयोगद्वारे "तेणं जीवा वालग्गाओ वि सुहमा सुहमपणगजीवस्स सरीरोगाहणाओहिंतो असंखेज्जगुणा ।" दृढव्रतो विचिन्त्येति नापिबत् सलिलं सुधीः । छिन्नाशः सुपरीणामो नदीतो निर्गतो मृतः ॥८॥ देवीभतस्तथैवेत्यधिष्ठाय स्वकलेवरम् । गच्छन् पथि विचक्रे च व्रजान् गो-माहिषाकुलान् ॥९॥ तक्रौदनाद्यमादाय चलितेष्वथ साधुषु । स्कन्धोपकरणं विस्मारितं देवेन कुत्रचित् ॥१०॥ विदित्वैको मुनिस्तत्र व्याघुट्य तदुपाददे । व्रजा न वीक्ष्य साधुभ्यः प्रोचे तेऽप्यवदन्नदः ॥११॥ देवमायेत्यसौ तावत् प्रत्यक्षीभूय निर्जरः । विना तं वृद्धमखिलान् ववन्दे प्रयतो मुनीन् ॥१२।। वन्दसेऽमुं न किमिति पृष्टोऽवगमुनोदितम् । अकरिष्यं यदि प्राप्स्यं तदाऽहं दुर्गदुर्गतिम् ॥१३॥ १. तस्मिन् जीवा वालाग्रादपि सूक्ष्माः सूक्ष्मपनकजीवस्य शरीरावगाहनाभ्योऽसङ्खयेयगुणाः । Jain Education International 2010_02 For Private & Personal use only Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002565
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages500
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy