________________
द्वितीयं परीषहाध्ययनम्
तन्निवासिजनस्तुभ्यं भिक्षां दाताऽथ सोऽव्रजत् । तरुमूलोत्थसौवर्णहस्ताद् भैक्ष्यमवाप च ॥११॥ प्रत्यहं स तथा कुर्वंस्तस्थौ यावन्मुनीश्वराः । तेऽपि प्रत्याययुर्वर्षे द्वितीये तमलोकयन् ॥१२॥ पृष्टोऽवक् सकलं वृत्तं क्षपकं तानदर्शयत् । तावत् त्यक्ततनुर्देवोऽध्यक्षीभूयानमन्मुनीन् ।।१३।। कृपयाऽदामहं पिण्डं मिथ्या दुष्कृतमस्तु मे । इत्युदीर्य गते देवे क्षुल्लस्तैर्व्यहरत् सह ॥१४।। क्षपकेन क्षुधा सेहे यद्वा क्षुल्लोऽपि सोढवान् ।
विगणय्य क्षुधाबाधां तस्थौ तत्र वने यतः ॥१५॥ इति क्षुत्परीषहे हस्तिभूतियतिकथा ॥३॥ क्षुधादितस्योष्णे पर्यटतः पिपासापि स्यादिति द्वितीयं तत्परीषहमाह
तओ पुट्ठो पिवासाए दोगुंछी लज्जसंजए ।
सीओदगं न सेविज्जा वियडस्सेसणं चरे ॥४॥ व्याख्या-ततः क्षुत्परीषहात् स्पृष्टोऽभिद्रुतः पीडितः पिपासया । जुगुप्सकोऽनाचारस्य । लज्जया सं सम्यग् यतते कृत्यं प्रत्याहतो भवति लज्जासंयतः । शीतोदकं स्वरूपस्थमप्रासुकं जलं न सेवेत पानादिना, किन्तु विकृतस्य स्वकायादिशस्त्रोपहतत्वेन विकारं प्रापितस्य प्रासुकस्यार्थादुदकस्यैषणाय गवेषणाय चरेदागमोक्तकुलेषु पर्यटेत् । चतुर्थ्यर्थे द्वितीया ||४|| किञ्च
छिन्नावाएसु पंथेसु आउरे सुपिवासिए ।
परिसुक्कमहो दीणे तं तितिक्खे परीसहं ॥५॥ व्याख्या-छिन्नापातेषु अपगतजनसञ्चारेषु पथिषु । गच्छन्निति गम्यम् । आतुरोऽत्याकुलतनुः सुपिपासितोऽतिशयेन तृषितः परिशुष्कमुखो विगतनिष्ठीवनतयाऽनार्द्रवदनोऽदीनो दैन्याभावेन तं तृट्परीषहं तितिक्षेत सहेतायमर्थो विविक्तदेशस्थोऽप्यतिपिपासातोऽस्वास्थ्येऽपि नोक्तविधिमुल्लङ्घयेत्, ततः पिपासापरीषहोऽध्यासितः स्यात् । धनशर्मयतिवत्
धनमित्रः प्रवव्राज पुत्रेण धनशर्मणा । उज्जयिन्यां क्रमादेष व्यहरत् साधुभिः सह ।।१।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org