SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ द्वितीयं परीषहाध्ययनम् तं जहा-दिगिंछापरीसहे १. पिवासापरीसहे २. सीयपरीसहे ३. उसिणपरीसहे ४. दंसमसगपरीसहे ५. अचेलपरीसहे ६. अरइपरीसहे ७. इत्थीपरीसहे ८. चरियापरीसहे ९. निसीहियापरीसहे १०. सिज्जापरीसहे ११. अक्कोसपरीसहे १२. वहपरीसहे १३. जायणापरीसहे १४. अलाभपरीसहे १५. रोगपरीसहे १६. तणफासपरीसहे १७. जल्लपरीसहे १८. सक्कार-पुरक्कारपरीसहे १९. पन्नापरीसहे २०. अन्नाणपरीसहे २१. सम्मत्तपरीसहे २२ ॥३॥ तद्यथेत्यपन्यासे । 'दिगिच्छा' देशीभाषया क्षुधा सैवात्यन्तव्याकुलत्वहेतुरपि पापभीरुतयाऽऽहारपाकानेषणीयादिवाञ्छानिवर्तनेन परीति सर्वप्रकारेण सह्यत इति परीषहः । एवं शेषपरीषहाणां नामान्वर्थो बृहट्टीकातोऽवसेयः । केवलं नैषेधिकी स्मशानादिका स्वाध्यायभूमिः । शय्या उपाश्रयः । 'जयणा त्ति' याञ्चा । स्वयं विमर्शपूर्वको वस्तुपरिच्छेदः प्रज्ञा । स्वतः परतो वा वस्तुतत्त्वावगमो ज्ञानमिति । ' अथैषां स्वरूपतः सम्बन्धार्थमाह परीसहाणं पविभत्ती कासवेणं पवेइआ । तं भे उदाहरिस्सामि आणुपुव्वि सुणेह मे ॥१॥ व्याख्या-परीषहाणामनन्तरोक्तानां प्रविभक्तिः पृथक्स्वरूपतारूपः प्रविभागः । काश्यपेन श्रीवीरेण प्रवेदिता प्ररूपिता तां 'भे' भवतामुदाहरिष्यामि वक्ष्याम्यानुपूर्व्या क्रमेण शृणुत मे ममोदाहरत इति ॥१॥ इहाशेषपरीषहेषु क्षुत्परीषहस्यातिदुस्सहत्वादितस्तमाह दिगिंछापरिगए देहे तवस्सी भिक्खु थामवं । न छिदे न छिंदावए न पए न पयावए ॥२॥ व्याख्य-दिगिंछापरिगते क्षुधाव्याप्ते देहे तपस्वी षष्ठाष्टमादितपोऽनुष्ठाता स च गृहस्थादिरपि स्यादत आह-भिक्षुर्यतिः स्थामवान् संयमबलवान् न च्छिन्द्यात् स्वयं, न च्छेदयेदन्यैः फलादि, न पचेत्, न चान्यैः पाचयेदुपलक्षणान्नान्यं छिन्दन्तं पचन्तं वाऽनुमन्येतैवं क्रीणनेऽपि योज्यम् । क्षुत्पीडितोऽपि न नवकोटिशुद्धिबाधां विधत्त इति भावः ।।२।। कालीपव्वंगसंकासे किसे धमणिसंतए । मायन्ने असण-पाणस्स अदीणमणसो चरे ॥३॥ व्याख्या—काली काकजङ्घा तस्याः पर्वाणि सन्धयः तत्पर्वाणि स्थूराणि मध्यानि च Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002565
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages500
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy