SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ द्वितीयं परीषहाध्ययनम् इह पूर्वाध्ययने विनयः सप्रपञ्च उक्तः । स च स्वस्थैः परीषहातैरपि कार्य एवेति परीषहाध्ययनं व्याख्यातुमारभ्यते । तस्येदमादिसूत्रम् सुअं मे आउसं ! तेणं भगवया एवमक्खायं इह खलु बावीसं परीसहा समणेणं भगवया महावीरेणं कासवेणं पवेइया । जे भिक्खू सुच्चा नच्चा जिच्चा अभिभूय भिक्खायरियाए परिव्वयंतो पुट्ठो नो विनिहनिज्जा ॥१॥ व्याख्या-सुधर्मस्वामी जम्बूस्वामिनं प्रति आह । श्रुतं मे मया आयुष्यमन् ! तेन जगत्प्रसिद्धेन भगवता समग्रैश्वर्यादियुक्तेनैवमाख्यातं । किमित्याह-इह प्रवचने खलुरलङ्कारे द्वाविंशतिः परीषहाः सन्तीति गम्यम् । तत्र भगवतापि कथं ज्ञाता इत्याह-श्रमणेन भगवता महावीरेण काश्यपगोत्रेण प्रवेदिताः प्रकर्षेण स्वयं केवलज्ञानेन साक्षाज्ज्ञातास्ते कीदृशाः ? इत्याह-यान् परीषहान् भिक्षुः साधुः श्रुत्वा गुरुमुखात्, ज्ञात्वा यथावदबुध्य, जित्वा पुन:पुनरभ्यासेन परिचितान् कृत्वा, अभिभूय तत्सामर्थ्यमुपहत्य भिक्षाचर्यायां परिव्रजन् स्पृष्ट आश्लिष्टोऽर्थात् परीषहैरेव नो नैव विनिहन्येत संयमाङ्गोपघातेन विनाशमाप्नुयात् । यतो हि भिक्षाऽटने प्रायः परीषहा उदीर्यन्ते । उक्तञ्च–"भिक्खायरियाए बावीसं परीसहा उईरिज्जंति"। शिष्यः प्रश्नयति कयरे ते खलु बावीसं परीसहा समणेणं० ॥२॥ कतरे किनामानस्ते खलु द्वाविंशतिः परीषहाः ? | शेषं प्राग्वत् । उत्तरमाहइमे खलु ते बावीसं परीसहा समणेणं० इमेऽनन्तरं वक्ष्यमाणत्वेन प्रत्यक्षाः । ते इति ये त्वया पृष्टाः शेषं प्राग्वत् । १. भिक्षाचर्यायां द्वाविंशतिः परीषहा उदीर्यन्ते । JainEducation International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002565
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages500
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy