________________
प्रथमं विनयाध्ययनम्
एवमाभाषितो नत्वा जिनं निर्वृतिसस्पृहः । द्वारवत्यां चिरं भेजे विष्णुः साम्राज्यमुज्ज्वलम् ||२६|| इति पुरुषोत्तमविषयं श्रुत्वा विनयोपचारफलमतुलम् । तत्रैव यत्नमनिशं कुरुतान्यैरलमलं कष्टैः ॥२७॥
इति विनये विष्णुः ॥
श्रुतावाप्तावैहिकफलमाह
स पुज्जत्थे सुविणीयसंसए मणोरुई चिट्ठइ कम्मसंपया । तवोसमायारि-समाहि-संवुडे महज्जुई पंच वयाइं पालिया ॥ ४७ ॥
४५
व्याख्या — स शिष्यः सुप्रसन्नगुरोरधिगतश्रुतः पूज्यशास्त्र श्लाघ्यशास्त्रः सुष्ट्वतिशयेन विनीतोऽपनीतः संशयो यस्य स सुविनीतसंशयः । मनसश्चित्तस्यार्थाद् गुरो रुचिरभिलाषोऽस्मिन्निति मनोरुचिस्तिष्ठत्यास्ते गुरुपार्श्वे विनयाधिगतागमत्वेनातिप्रियत्वात् । मनोरुचित्वमुक्तम् । कर्म क्रिया इच्छादिदशविधचक्रवालसामाचारी तस्या: सम्पदा तयोपलक्षित इति गम्यम् । तपसः सामाचारी समाचरणं, समाधिश्चेतः स्वास्थ्यं ताभ्यां संवृतो निरुद्धाश्रवः । महती द्युतिस्तपोदीप्तिर्यस्येति महाद्युतिर्भवतीति गम्यम् । पञ्च व्रतानि पालयित्वा निरतिचारं संस्पृश्येति ॥ ४७॥
आमुष्मिकं फलमाह —
स देव-गंधव्व-: - मणुस्स - पूइए चइत्तु देहं मलपंकपुव्वयं ।
सिद्धे वा हवइ सास देवे वा अप्परए महिड्डिए ॥ ४८ ॥ त्ति बेमि ॥
व्याख्या—स तादृग् विनीतविनयो देव - गन्धर्व - मनुष्य - पूजितस्त्यक्त्वा देहं मल-पङ्कौ रक्त-शुक्रे तत्पूर्वकं तत्प्रथमकारणं सिद्धो वा निष्ठितार्थो वा भवति शाश्वतः सदाऽवस्थायी न तीर्थनिकारादाविह पुनरागन्ता बुद्धवत् । देवो वाऽल्परजाः प्रतनुबद्ध्यमानकर्मा महती ऋद्धिश्चक्रवर्त्त्यादिका तृणाग्राद् हिरण्यकोटिवर्षणादिरूपा वा यस्येति महर्द्धिकः । इति परिसमाप्तौ "इते: स्वरात् तश्च द्विः " || ८|१|३९|| इति सूत्रेण इकारस्य लोपस्तेश्च द्वित्वम् । एवं सर्वत्र ज्ञेयम् । ब्रवीमीति गणभृदाद्युपदेशतो न तु स्वधिया ||४८ ||
इति श्रीकमलसंयमोपाध्यायविरचितायां सर्वार्थसिद्धौ श्रीउत्तराध्ययनटीकायां प्रथमं विनयाध्ययनं समाप्तम् ॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org